________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
तथैकः शाटको यत्रासावेकशाटकस्तेन, अनेनानेकवस्त्रनिषेधमाह, उत्तरस्मिन्नुपरितने काय आसङ्गो वस्त्रविन्यासविशेषलक्षणः सम्बन्धस्तेन जिनगृहे प्रवेशोऽर्हन्मन्दिरान्तर्गमनम्, एतच्चार्थवशात्सप्तम्यन्तं कृत्वा प्राक्तनेष्वपि चतुर्षु योजनीयम् । इह च ' एगसाडएणं उत्तरासंगेण 'ति पदं पुरुषस्यैव, स्त्रियास्तु 'विणओणयाए गायलट्ठीए' इति पञ्चममभिगमपदं दृश्यम्, व्यक्तञ्चैतत् पञ्चविधोऽभि आभिमुख्येन प्रस्तावाज्जिनस्य गम्यतेऽनेनेत्यभिगम इति पूर्वदर्शितप्रकारेण भवतीति शेषः । अपि चेत्यभ्युच्चयेऽथवाऽन्यथा विशिष्टपुरुषापेक्षयैष पञ्चविधोऽभिगम इति गाथाद्वयार्थः।।३१, ३२।।
४२
* सङ्घाचारभाष्ये- २० *
तत्र चैत्ये प्रविशन् पञ्चविधाभिगमं करोति, इत्येतत्सम्बन्धायातं द्वितीयं 'अभिगमपणगं ति द्वारं विवृण्वन्नाह -
सच्चित्तदव्वमुज्झणमचित्तमणुज्झणं मणेगत्तं । इगसाडिउत्तरासंग अंजली सिरसि जिणदिट्ठे ।
सचित्तद्रव्याणां स्वाङ्गाश्रितानां कुसुमताम्बूलादीनामुज्झनं परित्यागः, अचित्तानांकटककुण्डलकेयूरहारादीनां द्रव्याणामित्यत्रापि योज्यमनुज्झनमपरित्यागः, मनऐकाग्र्यं रागद्वेषाभावेन मनःसमाधिरनन्योपयोगितेतियावत्, एकशाटकउत्तरासंगः, एकः - एकसंख्यो न द्व्यादयः शाटको देशान्तरप्रसिद्धः पृथुलपटादिरूपो यत्र स उत्तरासंग उपरितनं वस्त्रम्, प्रावरणवस्त्रमित्यर्थः, उक्तं च आचाराङ्गचूर्णौ–‘एगसाडो, यदुक्तं भवति- एगपावरणुत्ति तेन कृत्वा उत्तरासंग-उत्तरीयकरणं' कल्पचूर्णावप्युक्तं-‘उत्तरिज्जं नाम पावरणं,' क्वचित् उत्तरिज्जं नाम पंगुरणमिति पाठः, एवं च एगेण पंगुरणवत्थेण उत्तरासंगो किज्जइ इति भणियं होइ,' अनेन च निवसनवस्त्रेणोत्तरासङ्गकरणनिषेधमाह', निवसनवसनस्यान्तरीयशब्दवाच्यत्वात्, तथा च कल्पनिशीथचूर्णी 'अंतरिज्जं नाम नियंसणं ति, एकग्रहणं पुनरुत्तरासङ्गेऽनेकवस्त्रनिषेधार्थम्, न तु सर्वथोपरितनप्रावरणवस्त्रस्य एवं च परिहितैकवस्त्रो द्वितीयेन वस्त्रेणोत्तरासंगं कुर्यादित्युक्तं भवति, यदुक्तं पंचाशकवृत्तौ - 'एकवस्त्रपरिधान एकेन चोपरितनवस्त्रेण कृतोत्तरासंग' इति, मार्कण्डेयपुराणेऽप्युक्तम्-नैकवस्त्रेण भुञ्जीत न कुर्याद्देवतार्चनम्' इत्यादि, एतच्च पुरुषमाश्रित्योक्तम्, स्त्री तु विशेषप्रावृताङ्गी विनयावनततनुलतेति, तथा चागमः- “विणओणयाए गायलट्ठीए "त्ति, एतावता शक्रस्तवादावप्यासां शिरस्यञ्जलिन्यासो न युज्यते, हृदादिप्रसक्तेः, यत्तु करयल जाव कट्टु एवं वयासीत्युक्तं द्रौपदीप्रस्तावे तद् भक्त्यर्थं न्युञ्छादिवदञ्जलिमात्रभ्रमणसूचनपरम्, न च पुरुषैः सर्वसाम्यार्थम्, न च तथास्थितस्यैव सूत्रोच्चारख्यापनपरम्, अन्यत्रापि नृपादिविज्ञापनादावप्यादौ तथा