________________
१- देवतत्त्वम् गा-३१, ३२
एवंविधा विधियुक्ता वन्दना भवति । इह च प्रदक्षिणाशब्दसम्बद्धमपि त्रिकपदं व्याख्यानात्पूजाप्रणिधानमुद्रास्वपि योज्यम्, एतावता च शेषत्रिकषट्कमपि सूचितम्, वक्ष्यति च 'तिन्नि निसीहिए' इत्यादीति गाथार्थः ।। ३० ।।
चक्रे० : पञ्चविधाऽभिगममेवाहुः देव० : पञ्चविधाऽभिगममेवाह -
दव्वाण सचित्ताणं विउसरणमचित्तदव्वमणुसग्गो । मणएगत्तीकरणं अंजलिबंधो य दिट्ठिपहे ।। ३१ ।। तह एगसाडएणं उत्तरसंगेण जिणहरपवेसो । पंचविहोऽभिगमो इय अहवा वि य अन्नहा ऐस ।। ३२ ।।
४१
चक्रे० : पूजोपकरणं मुक्त्वा सचित्तद्रव्याणां विभूषागतपुष्पताम्बूलादीनां व्युत्सर्जनं परित्यागः । तथाऽचित्तानां कटककेयूरादीनामनुत्सर्गः । तथा मनस एकत्वीकरणं धर्मैकालम्बनताकरणम्, तथाऽञ्जलिबन्धः शिरसि करकोशन्यासो दृष्टिपथे लोचनगोचरे सति स्वामिनीत्यर्थः । । ३१ ।।
तथैकशाटकेनैकपरिधानेनोत्तरासङ्गेनोत्तरीयकृतेन प्रतीतेन जिनगृहप्रवेशः, इत्युक्तप्रकारेण पञ्चविधोऽभिगमोऽथवाऽन्यथैष पञ्चविधाभिगमः । अपि चेति समुच्चये ।। ३२ ।।
देव० : द्रव्याणां वस्तूनां सचित्तानां पुष्पताम्बूलादीनां व्युत्सर्जनं परित्यागः, एतत्पुनः पूजोपकरणं विमुच्येति ज्ञेयम्, तथाऽचित्तद्रव्याणां कटककेयूरादीनामनुत्सर्गोऽपरिहारो मकारोऽत्र प्राकृतप्रभवः । तथैकस्मिन् वस्तुन्यवस्थिततत्परिणामात्मनोऽप्येकम्, तस्य भावस्तत्त्वम्, ततो नानावस्तुसञ्चारित्वेनानेकत्वस्य सत एकत्वस्य करणमेकत्वीकरणं मनस एकत्वीकरणमिति समासः, अन्तःकरणस्यैकालम्बनताविधानमित्यर्थः । तथाऽञ्जलिबन्धः शिरसि करकुद्मलन्यासो दृष्टिपथे लोचनगोचरेऽवतीर्णे भगवतीति शेषः । चः समुच्चये ।
१. इह च दशत्रिकान्तर्गतत्वेऽपि पूजाप्रणिधानमुद्राणां पृथगुपादानं कदाचित्कथञ्चित्कस्यचित् त्रिकस्य असम्भवेऽपि शेषसम्भवित्रिकाणामवश्यकर्त्तव्यता दर्शनार्थमिति गाथार्थः T, B, C २. परिभोगो P, K. ३. एग साडिएणं TC. ४. एसा A. एसो. T.C