________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
चक्रे० : अथ विधिपक्षमुपसंहरन्तः पूजानन्तरं वन्दनं कार्यमिति तदुपदेशमाहुः - देव० : अथ विधिपक्षमुपसंहरन् ‘पूयाए उवरि वंदणं नेयं' इति वचनमनुवर्तमानो वन्दनोपदेशमाह -
इय आगमविहिपुव्वं भत्तिभरुल्लसियबहलरोमंचा ।
तं भुवणवंदणिज्जं वंदह परमाए भत्तीए ।।२९।। चक्रे० : इति हेतोरागमविधिपूर्वं भक्तिभरोल्लसितबहलरोमाञ्चा आन्तरप्रीत्यातिशयोद्गतबहलपुलकास्तं तीर्थकरं तद्विम्बं वा भुवनवन्दनीयं वन्दध्वं भो भव्या इति शेषः, परमया भक्त्या प्रकृष्टया प्रदक्षिणादानादिकया कायप्रतिपत्त्येत्यर्थः ।।२९।।
देव० : इति हेतोरागमविधिपूर्वं भक्तिभरोल्लसितबहलरोमाञ्चा आन्तरप्रीत्यतिशयोद्गतबहलपुलकास्तं तीर्थकरं प्रस्तुतबिम्बं वा भुवनवन्दनीयं वन्द्यत्वे हेतुरयं वन्दध्वं नमस्कुरुत भो भव्या इति शेषः परमया भक्त्या प्रकृष्टया कायप्रतिपत्त्या, अनेन बहुमानभक्तिविरहेण वन्दमानोऽपि द्रव्यवन्दनत्वेन न तथाविधनिर्जराभाग्भवतीत्यावेदयतीति गाथार्थः ।।२९ ।।
चक्रे० : आगमोक्तमेव वन्दनविधिमाहुः - देव० : वन्दनविधिमेवाह -
पंचविहाभिगमेणं पयाहिणतिगेण पूयपुव्वं च ।
पणिहाणमुद्दसहिया विहिजुत्ता वंदणा होइ ।।३०।। चक्रे० : पञ्चविधाऽभिगमेन प्रदक्षिणात्रिकेण विशेषितोऽनेन दशत्रिकाणि सूचितानि । इह विशेषणे तृतीया । पूजापूर्वं च पूर्वं पूजां कृत्वेत्यर्थः प्रणिधानमुद्राभ्यां सहिता विधियुक्ता वन्दना भवति । इह दशत्रिकान्तर्गतत्वेऽपि पूजाप्रणिधानमुद्राणां पृथगादानं सर्वत्रिकाऽसम्भवेऽपि सम्भवित्रिकाऽवश्यकर्तव्यतादर्शनार्थम् ।।३०।।
देव० : पञ्चविधाऽभिगमेन तथा प्रदक्षिणात्रिकेण, अनेन च दशत्रिकाणि सूचितानि । पूजार्चा पूर्वा प्रथमा यस्मिंस्तत्तथाऽध्याहार्यविधियमानेति क्रियाविशेषणमिदम्, चः समुच्चये, प्रणिधानमुद्राभ्यां सहिता, सहितशब्दश्चेह कृतसमासोऽपि पूर्वत्रापि तृतीयान्तपदाभ्यां योज्यः,