________________
१-देवतत्त्वम् गा-२८
चक्रे० : तथा
देव० : तथा
-
नाणं विहिजोगो विहिपक्खाराहगा सया धन्ना ।
विहिबहुमाणी धन्ना विहिपक्ख अदूसगा धन्ना ।। २८ ।।
३९
चक्रे० : गतार्था ।।२८।।
देव० : धर्मधनमर्हन्तीति धन्यास्तेषां विधियोगस्तदधिगमरूपः सम्बन्धः, विधिपक्षाध विधिमार्गानुष्ठायिनः सदा धन्या एव तेषां हि शिवसुखसाधने मुख्यवृत्त्यैव प्रवृत्तत्वात् तथा विधिबहुमानिनोऽपि धन्यास्ते हि यद्यप्यत्यन्तविषयासक्ततयाऽज्ञानितया वा तदनुष्ठाने न प्रवर्तन्ते, तथापि तदनुष्ठातृन्प्रति बहुमानतो मार्गानुपातिनः, यदाह -
जच्चिय गुणपडिवत्ती सव्वन्नुमयम्मि जायइ विसुद्धा । तच्च जायइ बीयं बोहिए तेण णाएणं ।। [ J
तथा विधिपक्षादूषका अपि धन्याः । अप्रतिषिद्धमनुमतमिति न्यायेन किञ्चिदक्लिष्टाध्यवसायित्वेन तेषामपि मनागाराधकत्वाद्, उक्तं च
-
विहिप ओसो जेसिं आसन्ना तेवि सुद्धिपत्तत्ति ।
खुद्दमिगाणंपुण सुद्धदेसणा सीहनायसमा ।। [ पञ्चाशक - ३ / ४८ ] इति गाथार्थः । । २८ ।। * हितोपदेशप्रकरणे - १६६ *
अथ किमर्थमयमियान् विधिविधाने किलादर इति चेत् ? तदाह
नाणं विहिजोगो विहिपक्खाराहगा नरा धन्ना । विहिबहुमणी धन्ना विहिपक्ख अदूसगा धन्ना ।।
विधिशब्दोऽत्र सर्वत्र समयोक्तयुक्तिवाची, अतो धन्यानां सुचरितसुकृतानामेव परिपूर्णो विधियोगः संपद्यते । तथा तस्य विधिपक्षस्याराधका यथोक्तकारिणश्च नरा धन्याः । तथा येषां तथाविधकुसामग्रीसङ्गमेन विधियोगविधिपक्षसमाराधनलक्षणं द्वितयं नोपपद्यते, केवलं विधौ बहुमानमनुमोदनं विदधति, तेऽपि विधिबहुमानिनो धन्या एव । अथ कथञ्चित् कर्म्मगुरुत्वादिना विधिबहुमानविधानमात्रस्याप्यसम्भवः केवलमदूषकत्वमात्रमेव विधिपक्षस्य येषां तेऽपि धन्या एव । विधिहीना विध्यनाराधका विध्यबहुमानिनो विधिपक्षदूषकाश्च नराः सर्वथाऽप्यधमा एवेति कथं माऽस्तु विशुद्धधियां विधावादरः ? इति ।।१६६ ।।
१. अध्यवसायत्वेन T,B,C