________________
२४
दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम
चक्रे० : विधिनेत्युक्तमथ तमेवाहुः - देव० : विधिनेत्युक्तमथ विधिमेवाह -
जिणभवणकारणविही सुद्धा भूमीदलं च कट्ठाई ।
भियगाणऽतिसंधाणं सासयवुड्डी य जयणा य ।।१७।। चक्रे० : जिनभवनकारणविधिः शुद्धा निशल्या पराऽप्रीतिकरहिता च भूमिर्दलं च काष्टेष्टिकोपलादि शुद्धं स्वभावनिष्पन्नमुचितक्रयेण तत्कारिभ्यो गृह्यत इति शेषः । तथा भृतकानां सूत्रधारादीनामनतिसन्धानमवञ्चनं यथोक्तवेतनाधिकतरदानं तथा स्वाशयस्य शुभाध्यवसायस्य स्वकीयाध्यवसायस्य वा वृद्धिः । यथा -
पिच्छिस्सं इत्थ अहं वंदणगनिमित्तमागए साहू । कयपुग्ने भगवंते गुणरयणनिही महासत्ते ।। तथा पडिबुज्झिसंति इहं दट्ठण जिणिंदबिंबमकलंकं । अन्ने वि भव्वसत्ता काहिंति तओ परं धम्मं ।। ता एयं मे वित्तं जमित्थमुवओगमेइ अणवरयं । इय चिंताऽपरिवडिया सासयवुड्डी य मोक्खफला ।।
[पञ्च० ११२६, ११२७, ११२८] तथा यतना जलगालनादिरूपा चशब्दाः समुच्चयार्था इति गाथार्थः ।।१७।। देव० : जिनभवनकारणविधिरयं भवतीति शेषः, तथाहि- शुद्धा निर्दोषा भूमिर्वसुधा, सा च द्रव्यतो भावतश्च, तत्र द्रव्यतः शिष्टजनोचितप्रदेशस्थाऽशिवकाङ्गारास्थ्यादिशल्यरहिता च । भावतस्तु सकारणपराप्रीतिकरणरहिता, अप्रदेशे दोषा हि दुष्टजनोपघातात्प्रतिदिनं वृद्धरसम्भवः, साधूनां च चैत्यवन्दनार्थमनागमनम्, आगमने तु वेश्याषिङ्गादीनां चेष्टादर्शनवचनश्रवणादिभिश्चित्तविप्लुतेर्धर्मभ्रंशः शासननिन्दा च भवति, यथैवंविधा एवैते यन्मद्यापणवेश्यापाटकद्यूतखेलकमत्स्यबन्धपाटकादिषु जिनायतनानि विधापयन्ति, कलहश्च तैः सह सम्पद्यते, ततश्चात्मनस्तेषां च दारुणः कर्मबन्ध इति । शिवकादियुक्तायां पुनरनिवृत्त्यर्थहान्यना
१. भियगाणइसंधाणं A.T.C