________________
१-देवतत्त्वम् गा-१६
तं श्रृणोत्याश्रितजनस्य विघ्नव्रातमिति शरणं त्रातारम्, भावसाधनो वा शरणशब्दस्तदा तु तस्येति कर्तरि षष्ठ्येव, आलीयध्वमाश्रयध्वं दुष्कृतगर्दा सुकृतानुमोदनापूर्वकं प्रपद्यध्वम्, तस्यैव कर्मशत्रुसन्त्रस्तजगत्परित्राणैकव्यापृतत्वाद्, असकृत्तच्छब्दोपादानं तत्रैव देवत्वबुद्धिर्विधेयेत्यादरख्यापनार्थम् । किमित्येवमित्याह-मा क्रीणीत मा विनिमयध्वं मा गृह्णीतेति यावत्, कनकमूल्येन स्वर्णपण्येन पित्तलां प्रतीतामेतावद्भणामः । अयमभिप्राय:-वस्तूनां नामवर्णादिसाम्येऽपि महदन्तरमिति न तत्र भ्रान्तितः कनकमूल्यतुल्यनमनप्रशंसनध्यानादिभिः पित्तलातुल्यसरागदेवानाराधयतेत्युपदेशसर्वस्वम् । तथा च -
अक्कसुरहीण छीरं कक्कररयणाइं पत्थरा दो वि । एरंडकप्परुक्खतरुणो पुण अंतरं गरुयं ।। [ ] पंथसरिसा कुपंथा बहुं च कणयसरिसं न य सुवन्नं ।
धम्मसरिसो अहम्मो कायव्वो नित्थ मइमोहो ।। [नानाचित्तप्र० १२] इति गाथार्थः ।।१५।।
चक्रे० : तं नमतेत्याधुक्तं तच्च नमनादिकं भगवतः परमपदस्थस्य प्रतिमायामेव सा चायतने स्थाप्येति तद्विधापनोपदेशमाहुः - देव० : अन्यदपि तं प्रति भक्तिकृत्यमाह -
__ मेरुव्व समुत्तुंगं हिमगिरिधवलं लसंतधवलधयं ।
भवणं कारेयव्वं विहिणा सिरिवीयरायस्स ।।१६।। चक्रे० : सुगमा ।।१६।।
देव० : सुगमा, नवरमिदमुत्कर्षाभिधानं समृद्ध्यपेक्षं धनरहितस्य तु यादृशं तादृशमपि भक्त्या कुर्वतः पुण्यमेव । यदुक्तम् -
यस्तृणमयीमपि कुटीं कुर्याद्दद्यात्तथैकपुष्पमपि ।
भक्त्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य ।। [उपदेशतरङ्गिणी-२८] हिमगिरिधवलमिति शेषवर्णोपलक्षणं च, ईक्ष्यते च 'सव्वरयणमएहिं' इत्यादि । धवलध्वजप्रतिपादनं तु वर्णान्तरयुक्तपताकानिरासार्थमिति ।।१६।।