________________
दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम्
देव० : अत्यन्तं सर्वात्मना दग्धे बीजे नाङ्कुरो यथा भवति, शुक्लध्यानानलेन तथा दग्धे कर्मबीजे न रोहति भवाङ्करः । अयमभिप्रायः - दग्धकर्मबीजत्वान्न रोहन्तीत्यरोहन्त इति गाथात्रयार्थः ।।१४।।
* श्रावकप्रज्ञप्तौ-३९६ * दडंमि जहा बीए न होइ पुण अंकुरस्स उप्पत्ती ।
तह चेव कम्मबीए भवंकुरस्सावि पडिकुट्ठा ।। दग्धे यथा बीजे शाल्यादौ न भवति पुनरङ्करस्योत्पत्तिः शाल्यादिरूपस्य तथैव कर्मबीजे दग्धे सति भवाङ्कुरस्याप्युत्पत्तिः प्रतिकुष्टा निमित्ताभावादिति ।।३९६ ।।
चक्रे० : सम्प्रत्यस्यैव भगवतः सर्वथाऽऽराध्यत्वोपदेशमाहुः - देव० : सम्प्रत्यस्यैव भगवतः सर्वथाऽऽराध्यत्वोपदेशमाह -
तं नमह तं पसंसह तं झायह तस्स सरणमल्लियह ।
मा किणह कणयमुल्लेण पित्तलं इत्तियं भणिमो ।।१५।। चक्रे० : तमरिहन्तारमर्हन्तमरोहन्तं वा नमत शिरसा, तं प्रशंसत स्तुत वचसा, तं ध्यायत पिण्डस्थपदस्थरूपातीततया मनसा । तस्येति द्वितीयास्थाने षष्ठी, ततश्च रागादिभीरवस्तं शरणं त्रातारमालीयध्वमाश्रयत । मुहस्तच्छब्दोपादानं तत्रैव देवबुद्धिः कार्येत्यादरख्यापनार्थम् । किमित्येवमित्याहुः - मा क्रीणीत कनकमूल्येन पित्तलामेतावद्भणामः। अयमभिप्राय: - वस्तूनां नामवर्णादिसाम्येऽपि महदन्तरमिति न तत्र भ्रान्तितः कनकमूल्यतुल्यं नमनप्रशंसनध्यानादिभिः पित्तलातुल्यसरागदेवानाराधयतेत्युपदेशसर्वस्वम् । तथा च -
अक्कसुरहीण छीरं कक्कररयणाई पत्थरा दो वि । एरंडकप्परुक्खतरुणो पुण अंतरं गरुयं ।। [ ] पंथसरिसा कुपंथा सुवन्नसरिसाणि पित्तलाईणि ।
धम्मसरिसो अहम्मो कायव्वो नित्थ मइमोहो ।। [ ] इति गाथार्थः ।।१५।। देव० : तं देवं नमत शिरसा, तं प्रशंसत स्तुत वचसा, तं ध्यायत पिण्डस्थपदस्थरूपातीतरूपतया मनसा, तस्येति सुपां सुपो भवन्तीति न्यायात् षष्ठ्याः स्थाने द्वितीया, ततश्च १. भवति T,B,C २. अरिहन्तारमर्हन्तमरोहन्तं वा नमत T,B,C