________________
१-देवतत्त्वम्ं गा-१४
चाऽर्हारित्यत्र प्रतीत्यध्याहारात् सिद्धिगमनं प्रति योग्यास्तेनार्हन्त उच्यन्ते । असकृत् क्रियोपादानं चातिशयख्यापनार्थम् ।।१३।।
देव० : अर्हन्ति वन्दननमस्करणे, तत्र वन्दनं शिरसा, नमस्करणं वाचा, तथाऽर्हन्ति पूजासत्कारमत्र द्वन्द्वैकवद्भावः । तत्र पूजा वस्त्रमाल्यादिजन्या, सत्कारोऽभ्युत्थानादिसम्भ्रमः, सिद्ध्यन्ति निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिर्लोकान्तक्षेत्रलक्षणा । तथा च भगवद्भद्रबाहुस्वामिपादाः-‘इह बोंदिं चइत्ता णं तत्थ गंतूण सिज्झइ ।' तद्गमनं च प्रतीति शेषः, अर्हा योग्याः, प्राकृतशैल्या अर्हन्तीत्यर्हाः, यद्वाऽर्हन्तीत्यर्हन्तस्तेनोच्यन्त असकृत्क्रियोपादानं चातिशयख्यापनार्थम् । दृश्यते चायं न्यायो यथा
अथवा
जयइ सुयाणं भवो तित्थयराणं अपच्छिमो जयइ । **
जय गुरू लोगाणं जयइ महप्पा महावीरो ।। [ नन्दीसूत्र - २] इति । । १३ ।। * आवश्यकनिर्युक्तो - ९२१ *
अरिहंत वंदणनमंसणाई अरिहंति पूअसक्कारं । सिद्धिगमणं च अरिहा अरहंता तेण वुचंति ।।
-
चक्रे० : तथा
देव० : तथा
'अर्ह पूजायाम्' अर्हन्तीति 'पचाद्यच्' कर्तर्यर्हाः, किमर्हन्ति ? - वन्दननमस्करणे, तत्र वन्दनं शिरसा नमस्करणं वाचा, तथाऽर्हन्ति पूजासत्कारम्, तत्र वस्त्रमाल्यादिजन्या पूजा, अभ्युत्थानादिसम्भ्रमः सत्कार:, तथा सिद्धिगमनं चार्हन्ति सिद्ध्यन्ति निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिर्लोकान्तक्षेत्रलक्षणा, वक्ष्यति च - 'इह बोंदिं चइत्ता णं तत्थ गंतूण सिज्झइ' तद्गमनं च प्रत्यर्हा इति, 'अरहंता तेण वुति' प्राकृतशैल्या अर्हास्तेनोच्यन्ते, अथवाऽर्हन्तीत्यर्हन्त इति गाथार्थः । । ९२१ । ।
-
—
२१
अचंतं देमि बीयंमि न अंकुरो जहा होइ ।
दडुंमि कम्मबीए न रुहइ भवअंकुरो वि तहा ।।१४।।
चक्रे० : पाठसिद्धैव, केवलं दग्धकर्मबीजत्वात् पुनर्भवे न रोहन्तीत्यरोहन्त इति तात्पर्यम् ।।१४।।
१. दड्ढमी T,C,P,K* तत्र प्रथमा गाथात्वियम् - जयइ जगजीवजोणीवियाणओ जगगुरू जगाणंदो ।
जगणाहो जगबंधू जयइ जगप्पियामहो भयवं ।।