SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ २० चक्रे० : नाम्ना यथार्थत्वमेवाहुः देव० : यथार्थत्वमेव व्याचष्टे - अट्ठविहं पिय कम्मं अरिभूयं होइ सव्वजीवाणं । तं कम्ममरिं हंता अरिहंता तेण वुच्च॑ति ।।१२।। चक्रे० : एषाऽपि स्पष्टैव ।। १२ ।। देव० : अष्टविधमपि ज्ञानावरणादिभेदतोऽष्टप्रकारमपि, अपिशब्दादुत्तरप्रकृत्यपेक्षयाऽनेकप्रकारमपि चशब्दोऽवधारणे भिन्नक्रमस्ततश्चाष्टविधं कर्मेवारिभूतं शत्रुभूतं भवति, सर्वजीवानां सर्वानर्थहेतुत्वादिति भावः । तत्कर्म अरिं हन्तारो, यतो घ्नन्तीत्येवं साधवो हन्तारस्तु निकृते पश्चाद् द्वितीयासमासोऽरिहंतारस्तेनोच्यन्त इति ।। १२ ।। * आवश्यकनिर्युक्तौ - ९२० * साम्प्रतं प्रकारान्तरतोऽरय आख्यायन्ते, ते चाष्टौ ज्ञानावरणादिसंज्ञाः सर्वसत्त्वानामेवेति, आह च अट्ठविहं पिय कम्मं अरिभूयं होइ सव्वजीवाणं । तं कम्ममरिं हंता अरिहंता तेण वुच्चति । अष्टविधमप्यष्टप्रकारमपि, अपिशब्दादुत्तरप्रकृत्यपेक्षयाऽनेकप्रकारमपि चशब्दो भिन्नक्रमः, स चावधारणे, ज्ञानावरणादि, ततश्चाष्टविधं कर्मैवाऽरिभूतं शत्रुभूतं भवति सर्वजीवानां सर्वसत्त्वानामनवबोधादिदुःखहेतुत्वादिति भावः, पश्चार्द्धं पूर्ववत्, एवंविधा अरिहन्तार इति गाथार्थः ।। ९२०।। चक्रे० तथा देव० : तथा - दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् - १. अरिहंति TC २. अरिहंता T, C, K , - अरहंति वंदनमंसणाई अरहंति पूयसक्कारं । सिद्धिगमणं च अरहा अरहंता तेण वुचंति ।।१३।। चक्रे० : अर्हन्ति वन्दननमस्करणे तत्र वन्दनं स्तवनम्, नमस्करणं प्रणामस्तथाऽर्हन्ति पूजासत्कारम्, तत्र पूजा वस्त्रमाल्यादिजन्या सत्कारोऽभ्युत्थानादिसम्भ्रमः । सिद्धिगमनं
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy