________________
१-देवतत्त्वम् गा-९, १०
चक्रे०: अधुना सार्द्धगाथयाऽष्टादशदोषानुक्त्वा तदुज्झितस्वामिनं गाथादलेन प्रणमन्ति - देव० : अधुना सार्द्धगाथया दोषानभिधाय तदपगमेन भगवन्तं गाथादलेन नमस्कुरुते -
अन्नाणकोहमयमाणलोहमायारई य अरई य । निद्दासोयअलियवयणचोरियामच्छरभयाइं ।।९।। पाणिवहपेमकीडापसंगहासा य जस्स इइ दोसा ।
अट्ठारस वि पणट्ठा नमामि देवाहिदेवं तं ।।१०।। चक्रे० : १-अज्ञानमयथावस्थितबोधः, २-क्रोधः कोपः, ३-मदो जातिलाभकुलैश्वर्यबलरूपतपःश्रुतैरष्टधा, ४-मानो दुरभिनिवेशारोहः, ५-लोभो गायम्, इह प्राणातिपाताद्याश्चत्वारो मुख्यतयैवोक्ताः परिग्रहस्तु नोक्तस्ततोऽसौ गृद्धिस्वभावत्वादत्रैवान्तर्भाव्यः, ६-माया शाठ्यम, ७-रतिरिष्टशब्दादिविषयप्राप्तौ मनःप्रह्लत्तिः, ८-तद्विपरीता त्वऽरतिः, ९,१०,११,१२-निद्राशोकाऽलीकवचनचौर्याणि प्रतीतानि १३-मत्सरः परगुणाऽसहिष्णुता द्वेष इत्यर्थः, १४-भयमिहपरलोकाऽऽदानाकस्मादाऽऽजीवमरणाश्लोकभयरूपं सप्तविधम्, १५-प्राणिवधः प्राणिनां मनोवाक्कायैरतिपातनम्, १६-प्रेम स्नेहो राग इत्यर्थः, १७-क्रीडाप्रसङ्गोऽब्रह्मासेवनम्, १८-हासो विस्मयादिषु वक्त्रविकासात्मकः, चः समुच्चये शेषं स्पष्टम् ।।१०।।
देव० : १-यथास्थितवस्तुग्राहि ज्ञानम्, ततोऽन्यदज्ञानं संशयविपर्ययादिकम्, तत्र किमयं स्थाणुः पुरुषो वेति संशयः, शुक्तिशकले रजतबुद्धिर्विपर्ययः, २-क्रोधः प्रतीतः, ३-मदः कुलबलैश्वर्याधुपाधिरहङ्कारः, ४-मानो दुरभिनिवेशारोहः, ५-लोभो गार्द्धयम्, परिग्रहश्च गृद्धिस्वभावत्वादत्रैवान्तर्भवति, ६-माया शाठ्यम्, ७-रतिरिष्टशब्दादिविषयप्राप्तौ मनःप्रह्लत्तिः, ८-तद्विपरीता त्वरतिः, ९-निद्रा स्वापः, १०-शोक इष्टवस्तुविरहसमुद्भवश्चित्तसन्तापः, ११-अलीकवचनं भूतनिवासद्भूतोद्भावनविपरीतभाषणनिन्दाभेदाच्चतुर्द्धा, तत्र भूतनिह्नवो नास्त्यात्मेत्यादि, असद्भूतोद्भावनं सर्वव्यापी श्यामाकतण्डुलमात्रो वेति, विपरीतभाषणं गामश्वं वदतः, निन्दावचनं चौरस्त्वमित्यादि, १२-चौर्यं परस्वापहारः, १३-मत्सरः परगुणासहिष्णुता द्वेष इति यावत्, १४-भयं सप्तविधम्, तद्यथा-इहलोकभयं यन्मनुष्यो मनुष्याद् बिभेति १, परलोकभयं यन्मनुष्यः सिंहादेः २, आदानभयमादीयते स्वीक्रियत इत्यादानं द्रव्यम्, ततो मा ममैतच्चौरदायादादयोऽपहरेयुरित्येवंरूपम् ३, अकस्माद्भयं बाह्यनिमित्तमन्तरेण यदन्धकारादावुत्पद्यते ४