________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
पार्वणचन्द्रमण्डलनिभा उत्तराधर्यस्थितातपत्रत्रयी । इह कङ्केल्लिरित्यत्र प्राकृतवशाद्विभक्तिलोपो, भावलयभेरीछत्रमित्यत्र समाहारद्वन्द्वः, शेषं सुगमम् । समस्तासमस्तनिर्देशश्च बन्धानुलोम्यादेवमन्यत्रापि यथासम्भवमूह्यमिति आह- किमर्थमतिशयान्तर्गतत्वेऽपि प्रातिहार्याणां पृथगुपादानमिति, सत्यम्, इतरातिशयेभ्यो वैशिष्ट्यख्यापनार्थं तच्च समस्तत्रिभुवनाद्भुतवैभवसूचकत्वं प्राकृतलोकेनाप्यतिशयरूपतया प्रतिपद्यमानत्वं वाऽत एव प्रतिकृतावप्यमीषां सहविधानमिति गाथार्थः ।।८।।
* प्रवचनसारोद्धारे-४४० * साम्प्रतं 'अट्ठ महापाडिहेराइंति एकोनचत्वारिंशत्तमं द्वारमाह -
कंकिल्लि कुसुमवुट्ठी देवज्झुणि चामराऽऽसणाई च ।
भावलय भेरिछत्तं जयंति जिणपाडिहेराई ।। तत्र प्रतिहारा इव प्रतिहाराः सुरपतिनियुक्ता देवास्तेषां कर्माणि कृत्यानि प्रातिहार्याणि, 'वर्णदृढादिभ्यः ष्यञ्चेति कर्मणि ष्यञ् तान्यष्टौ, तद्यथा- १-उल्लसद्बहलपाटलपल्लवजालसर्वकालविकसदसमानकुसुमसमूहविनिःसरदविरलपरमपरिमलोद्गारभरसमाकृष्यमाणभ्रमभ्रमरनिकुरम्बरणरणारावशिशिरीकृतप्रणमद्भव्यजननिकरश्रवणविवरोऽतिमनोरमाकारशालिविशालशाल: कङ्केल्लितरु: अशोकतर्जिनस्योपरि देवैविधीयते । तथा २-जलजस्थलजविकुर्वणाविरचितानां पञ्चवर्णानां विकस्वराणामधःकृतवृन्तानामुपरिमुखाणां कुसुमानां पुरुषजानुद्वयसंवृष्टिः क्रियते । तथा ३-सरसतरसुधारससहोदरः सरभसविविधदेशापहतमुक्तापरव्यापारप्रसारितवदनैः कुरङ्गकुलैराकुलाकुलैरुत्कर्णैराकर्ण्यमानः सकलजनानन्दप्रमोददायी दिव्यो ध्वनिर्वितन्यते । तथा ४-कमनीयकदलीकाण्डप्रकाण्डतन्तुमण्डलीरुचिरमरीचिचिकुरनिकुरम्बडम्बरितातिजात्यविचित्रपवित्रनिःसपत्नरत्नविसरविनिःसरत्किरणानिकुरम्बजालेन दिशि दिशि संसूत्र्यमाणेन्द्रचापकान्तकाञ्चनमयोद्दण्डदण्डरमणीया चारुचामरश्रीविस्तार्यते । तथा ५-अतिभास्वरसटापाटलबन्धुरस्कन्धबन्धविकटप्रकटदंष्ट्राकरालसजीवायमानसिंहरूपालङ्कतमनेकप्रकाण्डरत्नखण्डविनिर्यद्वर्यकिरणावलिविलुप्यमानविलसत्तमस्काण्डडम्बरं सिंहासनं चारुतरं विरच्यते । तथा ६-शरत्कालविलसदखण्डमयूखमण्डलप्रचण्डचण्डमरीचिमण्डलमिव दुरालोकं तीर्थकरकायतः प्रकृतिभास्वरात्तदीयनिरुपमरूपाच्छादकमतुच्छं प्रभापटलं सम्पिण्ड्य जिनशिरसः पश्चाद्भागे मण्डलायमानं भामण्डलमातन्यते । तथा ७-तारतरविस्फारभाङ्कारभरितभुवनोदरविवरा भेरयो महाढक्काः क्रियन्ते । तथा ८-भूर्भुवःस्वस्त्रयैकसाम्राज्यसंसूचकं शरदिन्दुकुन्दकुमुदावदातं प्रलम्बमानमुक्ताफलपटलावचूलमालामनोरमं छत्रत्रयमतिपवित्रमासूत्र्यते, इत्यष्टौ प्रातिहार्याणि जिनेश्वराणां जयन्तीति ।।४४०।।
१. यथा सम्भवमूह्यम्, अतिशयान्तर्गतत्वेऽपि चामीषां पृथगुपादानं प्रातिहार्येऽपि व्यपदेशान्तरेणागमे रूढत्वादिति गाथार्थः A