________________
दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम
आजीविकाभयमाजीविका वृत्तिस्ततो भयम्, कथमहं दुर्भिक्षादौ वर्तिष्य इति ५, मरणभयं प्रतीतम् ६, अश्लोकभयं यद्यहमिदमकार्यमाचरिष्यामि तदा ममाप्रसिद्धिर्भविष्यतीत्येवंरूपम् ७, तथा १५-प्राणिवधः प्राणिनो जीवास्तेषां मनोवाक्कायैरतिपातनम्, १६-प्रेम स्नेहो राग इति यावत्, १७-क्रीडाप्रसङ्गो मैथुनम्, १८-हासो विस्मयादिषु वक्त्रविकासात्मकः, चः समुच्चये ।
इह च यद्यपि मत्सरः क्रोधमानात्मकः, प्रेम च मायालोभरूपं, तथापि तयोः पृथगुपादानं कथञ्चित्सामान्यस्य विशेषेभ्योऽन्यत्वख्यापनार्थम् । तथेहाज्ञानेन ज्ञानावरणदर्शनमोहनीययोरपगमः सूचितः । निद्रया तु दर्शनावरणस्य, क्रोधादिभिः कषायमोहस्य, रत्यादिभिर्नोकषायमोहस्य, प्राणिवधालीकचौर्यक्रीडाप्रसङ्गलोभैश्चारित्रमोहस्य, अमीषां चापगमेऽन्तरायस्याप्यवश्यमपगमोऽवगन्तव्यः, तस्य ज्ञानदर्शनावरणाभ्यामेकसमयेन सह क्षपणीयत्वात्, तदियता घातिकर्मणामभाव इति तात्पर्यम् । तथा चान्यैरपीत्थमेवोच्यते यथा -
अन्तरायदानलाभवीर्यभोगोपभोगगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ।। कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा ।
रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ।। [अभि.चिन्ता० ७२, ७३] इति । इत्युल्लेखेन यस्याष्टादशापि दोषाः प्रणष्टाः प्रलयं गताः, नमामि नमस्करोमि देवाधिदेवं तम्, दीव्यन्ति वचनगोचरातिक्रान्तवैभवातिशयेन क्रीडन्तीति देवा भवनपत्यादयस्तेष्वाधिक्येन परमानन्दवीर्यज्ञानावाप्त्या दीव्यति द्योतते शोभत इति देवाधिदेवस्तमिति । इह च गुणोत्कर्ष दोषाभावं च प्रतिपादयन् ये प्राकृतपुरुषनिर्विशेषाः प्रबलाज्ञानतिमिरान्तरिततत्त्वदृष्टयः कोपप्रसादविडम्बितजगज्जना अनिरुद्धाश्रवद्वारा इष्टानिष्टविषयप्राप्तिनिबन्धनहर्षविषादाकुलितचेतसश्चक्रचापशूलगदादिशस्त्रविहस्तहस्तनिष्कारणजगज्जन्मस्थेमविगमविहितबालकेलयः शश्वदङ्गनाङ्गपरिष्वङ्गरङ्गभाजो हास्यलास्यगीतादिव्यसनावेदितनीचवृत्तयः पशुपक्षिमेषादिवाहनाध्यासीनवपुषः सन्मार्गस्खलनोपजातजगद्विश्रुताऽवाच्यताविशेषास्ते देवा न भवन्तीत्यावेदयतीति गाथाद्वयार्थः ।।९, १०।।
१. तथेहाज्ञाननिद्राभ्यां ज्ञानावरणदर्शनावरणदर्शनमोहनीयानामपगमः सूचितः T,B,C