________________
१-देवतत्त्वम् गा-७
कानन्यजन
तत्र सकलत्रिभुवनातिशायिसर्वाऽऽश्चर्यनिधानभूतसर्वैश्वर्यनिवेदनपरभुवनजननयनाऽऽनन्दविधायजनसाधारणचतुस्त्रिंशदतिशयैर्युतः समन्वितो यः स देव इति प्रकृतम् । अष्टमहाप्रातिहार्यैरशोकाऽऽदिभिः कृता विहिता शोभा यस्य सोऽपि देवः । अष्टादशदोषैरज्ञानादिभी रहितो विवर्जितो यः स देवः । अयमत्र भावार्थ: यो हि देवो वा खेचरो वा वैक्रियाऽऽदिलब्धिमन्नरो वेत्थम्भूतस्फीतिमानपि यद्यष्टादशदोषरहितो न भवति न स देव इति नात्र संशयः संदेह इति गाथार्थः । । ६ ।।
चक्रे० : तत्र सविभागमतिशयानेव स्तवद्वारेणाहुः
देव० : अथ सविभागमतिशयानेव स्तवद्वारेणाह
चउरो जम्मप्पभिई एक्कारसकम्मसंखए जाए ।
नवदस य देवजणिए चउतीसं अइसए वंदे ।।७।। चक्रे० : गतार्था, केवलं कर्मसङ्क्षयो घातिकर्मक्षयो ज्ञेयः, ते चाम्यतिशयाःनिरामयमलस्वेदं सुगन्धि वपुरर्हताम् ।
श्वासोऽब्जगन्धो निर्वित्रे पाण्डुरे रुधिरामिषे ।। दृश्यौ नाहारनीहारौ जन्मतोऽतिशया इमे । क्षेत्रे योजनमात्रेऽपि मान्त्यसङ्ख्याः सुरादयः ।। वाणी योजनगा श्रोतृस्वस्वभाषाऽनुवादिनी । भामण्डलं पृष्ठभागे जितमार्तण्डमण्डलम् ।। न योजनशते साग्रे मारिदुर्भिक्षविग्रहाः । वैराऽतिवृष्ट्यऽवृष्टीति रुजोऽमी कर्मघातजाः ।।
दुन्दुभिश्चमराश्छत्रत्रयं रत्नमयध्वजः । सिंहासनं सांह्रिपीठं धर्मचक्रं पुरो दिवि ।। स्वर्णाब्जानि पदन्यासे कण्टकाः स्युरधोमुखाः । वप्रत्रयमशोकद्रुश्चातुरूप्यं द्रुमानतिः ।।
कचश्मश्रुनखाऽवृद्धिः पक्षिणोऽपि प्रदक्षिणाः । ऋतुषट्केन्द्रियार्थाऽऽनुकूल्यं गन्धाम्बुवर्षणम् ।।
१३
१. अतिसए T, C