________________
१४
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
निशीथेऽप्यन्तिके देवकोटिर्वाताऽनुकूलता । पुष्पवृष्टिश्चेति दैव्याश्चतुस्त्रिंशदिमेऽखिलाः । । [
] ।।७।।
देव० : पाठसिद्धा, नवरं सम्यक् क्षयः सङ्क्षयः सर्वघात इत्यर्थः, कर्मणां सङ्क्षयः कर्मसङ्क्षयः, स च घातिकर्मणामेवेति ज्ञेयम्, ते चामी
अथ चतुर्विंशतिजिनानामतिशयानाह
—
तेषां च देहोद्भूतरूपगन्धो निरामयः स्वेदमलोज्झितश्च । श्वासोऽब्जगन्धो रुधिरामिषे तु गोक्षीरधाराधवले ह्यवि ।। आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशयाः सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्रकेऽपि नृदेवतिर्यग्जनकोटिकोटेः ।। वाणी नृतिर्यक्सुरलोकभाषासंवादिनी योजनगामिनी च । भामण्डलं चारु च मौलिपृष्टे विडम्बिताहर्पतिमण्डलश्रीः ।। साग्रे च गव्यूतिशतद्वये रुजो वैरेतयो मार्यतिवृष्ट्यवृष्टयः । दुर्भिक्षमन्यस्वकचक्रतो भयं स्यान्नैत एकादश कर्मघातजाः ।। खे धर्मचक्रं चमराः सपादपीठं मृगेन्द्रासनमुज्ज्वलं च । छत्रत्रयं रत्नमयध्वजोंऽह्रिन्यासे च चामीकरपङ्कजानि ।। वप्रत्रयं चारु चतुर्मुखाङ्गता चैत्यद्रुमोऽधोवदनाश्च कण्टकाः । द्रुमानतिर्दुन्दुभिनाद उच्चकैर्वातोऽनुकूलः शकुनाः प्रदक्षिणाः ।। गन्धाम्बुवर्षं बहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाप्रवृद्धिः । चतुर्विधामर्त्यनिकायकोटिर्जघन्यभावादपि पार्श्वदेशे ।। ऋतुनामिन्द्रियार्थानामनुकूलत्वमित्यमी । एकोनविंशतिर्दैव्याश्चतुस्त्रिंशच्च मीलिताः ।। [
* सप्ततिशतस्थानप्रकरणे-९३ *
] इति ।।७।।
जम्मप्पभिई चउरो जिणाण इक्कार घाइकम्मखओ । सुरविहिअइगुणवीसं चउतीसं अइसया उ इमे ।।