________________
१ - देवतत्त्वम्
चक्रे० : सम्प्रति यथोद्देशं निर्देश इति देवतत्त्वं विवृण्वन्ति
देव० : व्यासार्थं तु समस्तग्रन्थेन स्वयमेव वक्ष्यति, तत्र यथोद्देशं निर्देश इति न्यायात्प्रथमं
तावद्देवतत्त्वं विवृणोति
-
चउतीस अइसयजुओ अट्ठमहापाडिहेरकयसोहो । अट्ठदसदोसरहिओ सो देवो नत्थि संदेहो || ६ ||
चक्रे० : इयं सूत्रेणैव वक्ष्यमाणार्थेति न प्रतन्यते ।।६।।
,
देव० : चतुर्भिरधिकास्त्रिंशचतुस्त्रिंशत्, ते च त अतिशय्यते विशेष्यत एभिरितरशास्तृभ्यो भगवानित्यतिशयाश्चोत्कर्षास्तैर्युतः सहितस्तथाष्टमहाप्रातिहार्यकृतशोभ इति प्रतिहारो राजदौवारिकस्तस्य कर्म प्रातिहार्यं, तच्च सततसन्निधानवर्तिना तन्माहात्म्यवृद्धिसम्पादनम्, तदिव यानि देवैर्विधीयन्ते तानि तथा महान्ति च तानि प्रातिहार्याणि चेति सामान्यव्युत्पत्तावपि महातिशयाः परिगृह्यन्त अष्ट च तानि महाप्रातिहार्याणि च वक्ष्यमाणानि तैः कृतशोभः प्राप्तत्रिलोकाभ्यधिकश्रीः, तथाष्टादशभिर्दोषैर्दूषणैर्वक्ष्यमाणै रहितो विप्रमुक्तो यः स एव देव आप्तो भवतीति शेषः, नास्त्यत्र सन्देहोऽस्यैव दृष्टेष्टाविरुद्धाविसंवादिवचनत्वविश्वसनीयत्वलक्षणाप्तलक्षणयोगादिति गाथार्थः || ६ ||
* अभिधानराजेन्द्रकोषे- 'देव' शब्दे - ६ ** चउतीस अइसयजुओ अट्टमहापाडिहेरकसोहो । अट्ठदसदोसरहिओ सो देवो नत्थि संदेहो ।।