________________
रणम - सम्यक्त्वप्रकरणम्
सम्यक्त्वमित्येतदेव वाच्यम्, देवसाध्वोर्जीवतत्त्वे, धर्ममार्गयोश्च शुभाश्रवे संवरे चान्तरभावादिदमेव च ग्रन्थान्तरेष्वपि सम्यक्त्वस्वरूपमुपलभ्यत इति । सत्यम्, तथापि देवादीनां धर्मसर्वस्वभूतत्वात् तद्विपर्यासे च सर्वानुष्ठानवैफल्यात् प्रतिदिनपूज्यत्वानुष्ठेयत्वाश्रयणीयत्वोपास्यत्वलक्षणोपयोगाञ्च पृथगुपादानमिति द्वारगाथासमासार्थः ।।५।।
* नवपदप्रकरणे-३ * व्याख्यातानि नामतो नव द्वाराणि, साम्प्रतं 'यथोद्देशं निर्देश' इति न्यायान्मिथ्यात्वमेवाद्यद्वारेण व्याचिख्यासुराह -
देवो धम्मो मग्गो साहू तत्ताणि चेव सम्मत्तं ।
तविवरीयं मिच्छत्तदरिसणं देसियं समए।। देवो धर्मो मार्गः साधवस्तत्त्वानि चैव सम्यक्त्वं, जिनागमाभिहितरूपाणि सर्वाणीति विशेषणपदं चकारेणानुक्तसमुच्चयार्थेन सूचितम्, एवकारोऽवधारणार्थः, स च चकारसूचितविशेषणपदेन संबध्यते, ततोऽयमर्थः-यथाऽवस्थितस्वरूपाण्येव देवादीनि सम्यक्त्वं न विपरीतरूपाणीति, ननु चैतद्विषयो यो रुचिपरिणामः स सम्यक्त्वमुच्यते, कथमेतान्येव सम्यक्त्वमित्युक्तम् ? सत्यम्, विषयविषयवतोरभेदोपचारवृत्त्या देवादिविषयो रुचिपरिणामो देवादिशब्दैविवक्षितोऽतो देवादीनि सम्यक्त्वमित्युक्तम्, एषां च स्वरूपमिदम् - 'यस्याष्टादश दोषाः क्रुधादयः क्षयमुपागताः सर्वे । मुक्तिप्रदः स देवो विज्ञेयः केवलज्ञानी ।। यत्र प्राणिदया सत्यमदत्तपरिवर्जनम् । ब्रह्मचर्यं च सन्तोषो, धर्मोऽसावभिधीयते ।। ज्ञानदर्शनचारित्रपरिपालनलक्षणः । अक्षेपमोक्षनगरप्रापको मार्ग इष्यते ।। दशविधयतिधर्मरताः समविगणितशत्रुमित्रतृणमणयः । जीवादितत्त्वविज्ञास्तीर्थकरैः साधवः कथिताः ।। तापच्छेदकषैः शुद्धः सुवर्णमिव यद्भवेत् । युक्तिसिद्धान्तसिद्धत्वात्तत्तत्त्वमभिधीयते ।।
अथवा 'सूचनात्सूत्र मितिवचनाद्देवधर्ममार्गसाधुतत्त्वेषु देवाद्यध्यवसायस्यैव देवादिशब्दविवक्षितत्वाद्देवो धर्मो मार्गः साधुस्तत्त्वानि चैव सम्यक्त्वमित्युक्तम्, ननु च मिथ्यादर्शनस्वरूपमभिधित्सितं तत्किमर्थमप्रस्तुतं सम्यक्त्वस्वरूपमुक्तम् ?, सत्यम्, सम्यक्त्वमिथ्यात्वयोः शीतोष्णस्पर्शयोरिव परस्परविरोधित्वात् सम्यक्त्वस्वरूपे ज्ञाते तद्विरोधिमिथ्यात्वस्वरूपं सुज्ञानं भवतीति ज्ञापनार्थम्, अत एवाह-'तबिवरीयं मिच्छत्तदरिसणं देसियं समये' त्ति तस्मात् सम्यक्त्वस्वरूपे ज्ञाते देवधर्ममार्गसाधुतत्त्वेषु यथाऽवस्थितरुचिपरिणामरूपाद्विपरीतम्-अन्यथा, यथारागादियुक्तोऽपि देवो नास्ति वा देवस्तथा चोक्तम् - १. अन्यत्रापि T,B.C