________________
भूमिका गा-५
सत्तण्हं पयडीणं अब्भिंतरओ य कोडाकोडीणं ।
काऊण सागराणं जइ लहइ चउण्हमन्नयरं ।। [ ]
जायत उत्पद्यते दुर्लभो दुष्प्रापोऽनेन कृतग्रन्थिभेदस्याप्यनन्तानुबन्धिनामुदयनिरोधेनैव तदवाप्तिं सूचयति । यदभिहितम् -
पढमिल्लयाण उदए नियमासंजोयणाकसायाणं ।
सम्मदंसणलंभं भवसिद्धीयावि न लहंति ।। [ ] त्ति ।
सम्यक्त्वं चासौ परिणामश्च सम्यक्त्वपरिणामस्तत्त्वश्रद्धानाध्यवसायोऽनेनात्मपरिणाम सम्यक्त्वमित्युक्तं भवति, एतच्चोपरितनगाथायां न्यक्षेण वक्ष्यतीति गाथार्थः ।।४।।
चक्रे० : अथ सम्यक्त्वस्वरूपमाहुः
२
देव० : अथ सम्यक्त्वस्वरूपमेवाह
९
देवो धम्मो मग्गो साहू तत्ताणि चेव सम्मत्तं । तव्विवरीयं मिच्छत्तदंसणं देसियं समए । । ५ । ।
चक्रे० : देवो धर्मो मार्ग : साधवस्तत्त्वान्येव सम्यग्भावः शुद्धतमात्मपरिणामरूपः सम्यक्त्वम् । इहोपचाराद्देवादितत्त्वविषयं श्रद्धानमेव सम्यग्भावे [ भावस्य ] जनकत्वात् सम्यक्त्वमिति लक्ष्यते, आयुः शब्देनेव घृतम् । तद्विपरीतं देवादितत्त्वश्रद्धानविपरीतं मिथ्यात्वदर्शनं देशितं कथितम्, समये सिद्धान्त इति द्वारगाथार्थः ।।५।।
देव० : देवो धर्मो मार्ग: साधवस्तत्त्वानि चैव विषयविषयिणोः कथञ्चिदभेदादेतद्विषयं श्रद्धानं सम्यक्त्वं समञ्चति सम्यगवैपरीत्येनावगच्छति देवादितत्त्वमिति सम्यग्ज्ञानमात्मा तस्य भावः सम्यक्त्वम्, सम्यक्त्वमोहनीयकर्माणुक्षयक्षयोपशमोपशमसमुत्थात्मपरिणामरूपम् । उक्तं हि – ‘से य सम्मत्ते पसत्थसम्मत्तमोहणीयकम्माणुवेयणोवसमखयखओवसमसमुत्थेपसमसंवेगाइलिंगे सुहे आयपरिणामे पण्णत्ति त्ति । चः समुच्चये, एवोऽवधारणे । तस्यैव फलं दर्शयतितव्विवरीयमित्यादि तेषु देवादिषु विषये विपरीतम्, भावप्रधानत्वान्निर्देशस्य विपर्यासोऽतद्रूपेषु तद्रूपताबुद्धिस्तद्रूपेष्वतद्रूपताबुद्धिश्च यदिवा तद्विपरीतं देवादिश्रद्धानविपरीतमर्थस्तु स एव । मिथ्यात्वदर्शनं वितथावबोधो देशितं कथितं समये सिद्धान्ते । ननु च तत्त्वार्थश्रद्धानं
१. वक्ष्याम इति T, B, C २. तदेवाह A