________________
८
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
जीवाः प्राणिनः पुनर्दुर्मेधसः स्वल्पबुद्धयो दुःषमानुभावादेव तथा च दुःषमास्वरूपम् - विज्जाण य परिहाणी पुप्फफलाणं च ओसहीणं च । आउयसुयरिद्धीणं संठाणुच्चत्तधम्माणं ।। [तित्थो. प. ९१७]
ततश्च तत्किमपि शिक्षणीयमभ्यसनीयं यत्किम् ? कार्यकारि च, ऐहिकामुष्मिकार्थप्रसाधकम्। तथा स्तोकमल्पं च । चकारौ विशेषणद्वयस्य तुल्यकक्षतां लक्षयतः । तदनेन विशेषावश्यकादिग्रन्थेषु विस्तरतः प्रोक्तेऽपि सम्यक्त्वस्वरूपे संक्षिप्तमिदं सुतरां प्रकरणमुपादेयमिति सूचयतीति गाथार्थः । । ३ । ।
चक्रे० : इह स्तोकं च कार्यकारि चेदं सम्यक्त्वप्रकरणम्, ततस्तदेवाभ्यसनीयम्, तस्य च सम्यक्त्वस्य लाभप्रकारमाहुः
देव० : इह च लब्धात्मलाभस्य वस्तुनः स्वरूपनिरूपणमुपपत्तिमदिति प्रथमं तावत्सम्यक्त्वलाभप्रकारमाह
-
मिच्छत्तमहामोहंधयारमूढाण इत्थ जीवाणं ।
पुन्नेहिं कह वि जायइ दुलहो सम्मत्तपरिणामो ।।४।।
चक्रे० : मिथ्यात्वमेव महान् दुरुच्छेदत्वेन गुरुर्मोहो मिथ्यात्वमोहनीयम्, स एवान्धकारः सद्दर्शनतिरोधायकत्वेन, तेन मूढानां निर्विवेकीभूतानामत्र संसारे जीवानां पुण्यैः पुण्यहेतुभिः शुभाध्यवसायविशेषैः कथमपि ग्रन्थिभेदादिना महता कष्टेन दुर्लभः सम्यक्त्वपरिणामो जायत उदायननृपस्येव सम्पद्यत इत्यर्थः ।।४।।
देव० : महांश्चासौ दुरुच्छेदत्वेन गुरुस्थितिकत्वेन च मोहश्च महामोहः, मिथ्यात्वं विपर्यासहेतुस्तच्चासौ महामोहश्च मिथ्यात्वमहामोहो मिथ्यात्वमोहनीयमिति हृदयम् स एवान्धकारः सद्दर्शननिरोधकत्वेन, तेन मूढा विवेकविकलास्तेषां जीवानामिति सम्बन्धः | 'इथ इहास्मिन् संसारे पुण्यैः पुण्यप्रकृतिभिः पञ्चेन्द्रियजातित्रसबादरपर्याप्तप्रभृतिभिर्हेतुभूताभिस्तदभावे सम्यक्त्वलाभायोगात् । कथमपीत्यनेन कष्टप्राप्यत्वप्रकारमाह, तथाहि - सप्तानां ज्ञानावरणादिकर्मप्रकृतीनां स्थितौ यथाप्रवृत्तिकरणेन पल्यकादिदृष्टान्ततः कोटीकोटेरभ्यन्तरीभूतायां तल्लाभसम्भवाद्, यदाह
१. प्रथमश्चकारोऽवधारणे स च भिन्नक्रमे योजित एव, द्वितीयस्तु समुच्चय इति गाथार्थः । T,B,C
1