________________
भूमिका गा-३
अपाणिपादो ह्यमनोग्रहीता पश्यत्यचक्षुः स श्रृणोत्यकर्णः ।
स वेत्ति विश्वं न च तस्य वेत्ता तमाहुरग्यं पुरुषं पुराविदः ।। [ ] इति । जिनेश्वरमित्यमुना तु सरागसिद्धस्य प्रतिबन्धः, यदाहुः केचन -
ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् ।
गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ।। [ ] इति । स्तुतिलक्षणं चेदम्, तत्किल स्तोतव्यस्य स्वार्थपरार्थसम्पत्ती सोपाये वक्तव्ये, तत्र सिवंबतरुकीरमित्यनेन स्वार्थसम्पत्तिः, दुहदवनीरमित्यनेन परार्थसम्पत्तिः, जिणेसरमित्यमुना तु द्वयोरप्युपायः प्रतिपादित इत्यलं विस्तरेणेति गाथाद्वयार्थः ।।१, २।।
चक्रे० : सम्प्रति सक्षेपेणेति यदुक्तं तत्रोपपत्तिमाहुः - देव० : इदानीं सक्षेपेणेति यदुक्तं तत्रोपपत्तिमाह -
सुयसायरो अपारो आउं थोवं जिया य दुम्मेहा ।
तं किंपि सिक्खियव्वं जं कज्जकरं च थोवं च ।।३।। चक्रे० : श्रुतसागरः सिद्धान्तोदधिर्महत्वसाधादपारोऽदृश्यपर्यन्तः, आयुर्जीवितं स्तोकम्, जीवाश्च दुर्मेधसः स्वल्पबुद्धयः, महामतयो हि जीवाः स्तोकायुषोऽप्यऽपारमपि सिद्धान्तमधीयेरन्न चैतदस्ति, तस्मात्तत्किमपि शिक्षणीयमभ्यसनीयं यत्कार्यकारि चैहिकामुष्मिकार्थप्रसाधकम्, स्तोकं च स्वल्पं च, इह चकारौ तुल्ययोगार्थी, द्वयोरप्यनयोर्विशेषणयोः समकक्षतां द्योतयतः ।।३।।
देव० : श्रुतसागरोऽपार इत्यादिकारणसद्भावात्समस्तप्रवचनाध्ययनाद्यसमर्थेन तत्किमपि शिक्षणीयं यत्कार्यकारि च स्तोकं चेति गाथासमासार्थः । अक्षरार्थः पुनरेवं-श्रुतमेव सागरः समयमहोदधिर्गाम्भीर्यसाधादपारोऽदृश्यपरकूल: । तथायुर्जीवितं स्तोकमल्पं दुःषमानुभावाद्, तदपि क्षणभङ्गुरमुपक्रमणसद्भावात् । तदुक्तम् -
शस्त्रं व्याधिर्विषं च ज्वलनजलभयव्यालवैतालशोकाः, शीतोष्णक्षुत्पिपासागलविवरमरुत्मूत्रविष्टानिरोधाः । नानाक्षुद्रोपघाताप्रचुरभुजिररुः श्रान्तिगात्राभिघाताः; विघ्नान्येतानि सद्यश्चिरमपि घटितं जीवितं संहरन्ति ।।
१. थोउं T.C थोअंP