________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् ।
ब्रुवतोऽनुग्रहबुद्धया वक्तुस्त्वेकान्ततो भवति ।। [तत्वार्थका० १-२९] इह च प्रथमगाथासूत्रेणेष्टदेवतानमस्काररूपं भावमङ्गलमुक्तम्, द्वितीयगाथया तु 'सम्मत्तस्स सरूवंति पदेनाभिधेयं तुच्छमईणं अणुग्गहत्थं समत्थभव्वाणं'ति अवयवेन गुरोरनन्तरप्रयोजनं च साक्षादभिहितम्, तथा शिष्यानन्तरप्रयोजनं सम्यक्त्वस्वरूपावगमः, परम्परन्तु द्वयोरपि निःश्रेयसावाप्तिरिति विज्ञेयम् । सम्बन्धस्तु सामर्थ्यगम्यः, स च शास्त्राभिधेययोर्वाच्यवाचकभावः, शास्त्रप्रयोजनयोस्तूपायोपेयलक्षण इति । अथ शिवाम्रतरुकीरमित्यस्मिन् सति प्राप्तभवार्णवतीरमिति कथं नानर्थकमेकार्थत्वात्, काञ्चनगौरशरीरमित्येतदपि शिवपदप्राप्तस्य मूर्तेरसत्वेन दुरवगमम्, दुःखदवनीरमित्येतदप्यशरीरस्य वाग्योगाभावेन दुर्घटम्, जिनेश्वरमिति विशेष्यपदमपि दुरुपपादम्, तत्र सर्वेषां समानत्वाद् । एतेषु वा सत्सु शिवाम्रतरुकीरमिति विरुद्धमिति सर्वमसमञ्जसमिति । तदयुक्तमभिप्रायापरिज्ञानादिह हि भगवतश्छद्मस्थाद्यवस्थात्रयेऽपि ग्रन्थकर्तुनमस्कारः कर्तुमभिमतस्ततश्च प्राप्तभवार्णवतीरमिति तीरासन्नमपि तीरमुपचाराद् यथा गङ्गासमीपोऽपि देशो गङ्गेति, तदनेन छद्मस्थावस्थैव विवक्षिता । यतः प्रतिपन्नानुत्तरविरतिर्मतिश्रुतावधिमनःपर्यवज्ञानसम्पन्नः सुतीव्रतरतपःसंयमानुष्ठानरतिस्तस्यामप्यवस्थायां संसाराम्भोधितटवत्येव वर्तते भगवान् । दुःखदवनीरं जिनेश्वरमित्याभ्यां च केवल्यवस्था सूचिता । तत्र हि निर्जितदुर्जयान्तरारिवारः प्रतिहतघनघातिकर्मा धर्ममुपदिशति । प्रातिहार्याद्यैश्वर्यं च शेषजिनेभ्योऽधिकमधितिष्ठति । काञ्चनगौरशरीरमित्यवस्थाद्वयेऽपि तुल्यमुभयत्रापि सशरीरत्वाद् । शिवाम्रतरुकीरमित्यनेन न तु सिद्धावस्थेति सर्वं सुस्थम् । अन्ये त्वन्यथा समादधति प्राप्तमुपलब्धं पूर्वमसज्ज्ञानक्रियाभ्यासाद्भवार्णवतीरं येनेत्यनेनानादिसिद्धमतव्युदासः । तथा दुःखदवनीरमित्यनेन संहारादिकर्तृपरपरिकल्पिताप्तप्रतिक्षेपः । शिवाम्रतरुकीरमिति प्रतिनियतसिद्धस्थानोपदर्शनेन यत्कैश्चिदुक्तम् -
गुणसत्वान्तरज्ञानानिवृत्तप्रकृतिक्रियाः ।
मुक्ताः सर्वत्र तिष्ठन्ति व्योमवत्तापवर्जिताः ।। [ ] इत्यादि, तन्निरस्यति, काञ्चनगौरशरीरमित्यनेन त्वशरीरमुपदेष्टारं प्रत्याचष्टे, तदुक्तं कैश्चित्
१. नमस्कार उक्तः T,B,C २. द्वितीयगाथया त्वभिधेयप्रयोजने साक्षादभिहिते । सम्बन्धस्तु सामर्थ्यगम्यः, तत्र सम्यक्त्वस्वरूपमभिधेयम्, प्रयोजनं च द्वेधा, अनन्तरपरम्पर भेदात्, तत्राचार्यस्यानन्तर प्रयोजनं तुच्छमतिसत्वानुग्रहः । श्रोतृणां तु सम्यक्त्वस्वरुपावगमः, परम्परं तुभयेषामपि निःश्रेयसावाप्तिः। सम्बन्धस्तु शास्त्र OT,B,C