________________
भूमिका गा - १, २
विधुरितास्तरवः सजलजलदवृष्ट्या विशिष्टां सम्पदमासादयन्ति तथा प्राणिनोऽपि रोगजरामरणादिदुःखसन्ततिसन्तप्ताः सन्तो भगवद्देशनया सततानन्दसुखभाजो भवन्तीति तात्पर्यार्थः । 'सिवंबतरुकीरं 'ति शिवमपवर्गस्तदेवाम्रतरुश्चतद्रुमः परमनिवृत्तिहेतुत्वेन तत्र कीर इव कीरः शुकः सदावस्थायित्वात्तत्रायमर्थो यथाहि शुकः सहकारतरौ निर्भरानन्दः सदा मोदते, तथासौ भगवान् शिव इति । ‘कंचणगोरसरीरं' ति काञ्चनं स्वर्ण तद्वद् गौरं शरीरमङ्गं यस्य स तथा तम्, अनेन शेषानपि शरीरातिशयान् सूचयति ।
नत्वा प्रणम्य 'जिणेसरं ति जयन्ति रागाद्यान्तररातीनिति जिना: सामान्यकेवलिनस्तेषु वक्ष्यमाणाष्टमहाप्रातिहार्यचतुस्त्रिंशदतिशयाद्यैश्वर्ययोगादीश्वरो जिनेश्वरो वीतरागशिरोमणिरित्यर्थस्तं 'वीरं 'ति विशेषेण विविधं वा ईरयति क्षिपत्यष्टप्रकारं कर्मेति वीरः,
विदारयति यत्कर्म तपसा च विराजते ।
तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ।। [ ]
इति निरुक्ताद्वा वीरोऽपश्चिमतीर्थाधिपतिस्तम् ।
'वुच्छं तुच्छमईणं' इत्यादि, तुच्छाल्पा गुरुतरशास्त्रबोधाद्यक्षमा मतिर्बुद्धिर्येषां ते तथा तेषामनुग्रहार्थमुपकृतये 'समत्थभव्वाणं 'ति भव्या मुक्तिगमनयोग्याः प्राणिनस्तदितरेषामुपकारानर्हत्वात्, ततश्च समस्ताश्च ते भव्याश्च समस्तभव्यास्तेषाम्, समस्तग्रहणं च भव्यजन्तुष्वनुग्रहं प्रत्यविशेषार्थम् । यदिवा समर्थभव्यानाम्, तेषामेव धर्मोपदेशानुग्रहेऽधिकारित्वात्, यदाह - अर्थी समर्थः शास्त्रेणापर्युदस्तश्च धर्मेऽधिक्रियते, समर्थाश्च ये शुद्धं धर्ममनुतिष्ठन्तः पित्रादिभ्यो न बिभ्यति त इह ग्राह्याः । यदाह
होइ समत्थो धम्मं कुणमाणो जो न बीहइ परेसिं ।
माइपिउसामिगुरुमाइयाण धम्माऽभिण्णाणं ।। [ श्रावकधर्मविधिप्र० ५ ]
'सम्मत्तस्स सरूवं 'ति सम्यगित्येतस्य भावः सम्यक्त्वं वक्ष्यमाणलक्षणम्, तस्य स्वरूपं याथात्म्यम्, सङ्क्षेपेण समासेन 'निसामेह' त्ति निशामयताकर्णयत, श्रवणं प्रत्यवहिता भवत । शिष्याभिमुखीकरणमेतद्, अनेन पराङ्मुखमपि प्रतिबोधयतो व्याख्यातुर्धर्म एवेति ख्यातिं भवति । तथा च वाचकः
१. गाथार्थ : A २. रमते A ३. पीतवर्णं शरीरं A ४ निशाम्यत A