________________
दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम
चके० : इहान्वयः सुगमः । पदार्थस्तु सतात्पर्योऽभिधीयते । तत्र 'पत्तभवन्नवतीरं 'ति प्राप्तं लब्धं भवः संसारः स एव दुस्तरत्वादर्णवः समुद्रस्तस्य तीरं तटं येन स तथा तम्, इहोपचारात्तीरासन्नमपि तीरम्, यथा गङ्गासमीपोऽपि देशो गङ्गेति, तदनेन छद्मस्थाऽवस्थोक्ता । अस्यामपि स्वामिनोऽत्यन्तासन्नसिद्धिकत्वेन भवाम्भोधितटवर्त्तित्वात् । 'दुहदवनीरं 'ति दुःखमेव दवो वनवह्निः सन्तापकत्वात्तस्य विध्यापकत्वेन नीरमिव नीरम्, यथाहि दावपावकोपद्रुताः पादपाः पयोदपयसा शाड्वलीभवन्ति तथाऽङ्गिनोऽपि दौर्गत्यादिदुःखोपतप्ताः स्वामिदेशनया निर्वान्तीति भावः, अनेन केवल्यवस्था सूचिता । अस्यामेव स्वामिनो धर्मोपदेशकत्वात् । 'सिवंबतरुकीरं 'ति शिवं निर्वाणं तदेवाम्रतरुश्चतद्रुमस्तत्र कीर इव कीरः शुकस्तमित्यनेन कीरस्येव सहकारे निर्वाणपद एव भगवतः परमनिर्वृत्तिरिति व्यञ्जयताऽमुना सिद्धाऽवस्थाऽभ्यधायि । 'कंचणगोरसरीरं 'ति काञ्चनं स्वर्णं तद्वद् गौरं गौरवर्णं शरीरं यस्य तमित्यनेन स्वामिनो रूपातिशयसम्पदुक्ता । 'नमिऊणे 'ति नत्वा | 'जिणेसरं 'ति जयन्ति रागाद्यऽरातीनिति जिना:, सामान्यकेवलिनस्तेषु वक्ष्यमाणाऽष्टमहाप्रातिहार्यचतुस्त्रिंशदतिशयाद्यैश्वर्ययोगादीश्वरो जिनेश्वरस्तम्, ‘वीरमि’ति परीषहोपसर्गसहनरञ्जितसुरेश्वररचितवीरनामानं चतुर्विंशतीर्थाधिपतिम् । 'वुच्छं तुच्छमईणं'ति वक्ष्ये तुच्छाऽल्पा गुरुतरशास्त्रबोधाद्यक्षमा मतिर्येषां ते तथा, तेषामनुग्रहार्थमुपकाराय । 'समत्थभव्वाणं 'ति भव्याः सिद्धिसौधाऽधिरोहयोग्याः प्राणिनस्तदन्येषामुपकाराऽनर्हत्वात्, ततश्च समस्ताश्च ते भव्याश्च समस्तभव्यास्तेषाम्, समस्तग्रहणं च भव्यजन्तुष्वनुग्रहं प्रत्यविशेषार्थं, यद्वा समर्थभव्यानां तेषामेव धर्मोपदेशानुग्रहाधिकारित्वाद् यदाहहोइ समत्थो धम्मं कुणमाणो, जो न बीहइ परेसिं ।
माइपिउसामिगुरुमाइयाण, धम्माऽणभिण्णाणं ।। [ श्रावकधर्मविधिप्र० ५ ]
'सम्मत्तस्स सरूवं 'ति सम्यक्त्वस्य देवतत्त्वादिश्रद्धानरूपस्य स्वरूपं याथात्म्यं सङ्क्षेपेण निशामयत शृणुतेति गाथाद्वयार्थः ।।१, २।।
देव० : सा च समुदायभेदतात्पर्यभेदात् त्रिधा, तत्र तावत् प्राप्तभवार्णवतीरमित्यादिविशेषणविशिष्टं जिनेश्वरं वीरं नत्वा तुच्छमतीनां समस्तभव्यानामनुग्रहार्थं सम्यक्त्वस्य स्वरूपं सङ्क्षेपेण वक्ष्यामीति समुदायार्थः । अथ भेदव्याख्यानं सतात्पर्यमुच्यते तत्र 'पत्तभवण्णवतीरं 'ति प्राप्तमुपलब्धं भवार्णवतीरं संसाराम्भोधितटं येन स तथा तम्, 'दुहदवनीरं 'ति दुःखमसातं तदेव दवो वनवह्निः सन्तापसाधर्म्यात् तस्य निर्वापकत्वेन नीरमिव नीरम्, यथाहि दवदहनसम्बन्ध
४