SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ भूमिका गा - १, २ देव॰ : नमः सर्वज्ञाय। नत्वा श्रीवर्धमानाय निस्सीमज्ञानचक्षुषे । जितान्तरारिवर्गाय सम्यक्तत्त्वार्थदेशिने । दर्शनशुद्धेर्वृत्तिं वक्ष्ये संक्षेपतः समयनीत्या । मन्दमतिबोधवृद्ध्यै स्मरणार्थं चात्मनः सततम् ।। जिनवदननलिनसदना विबुधासुरमनुजवृन्दवन्द्यपदा । सर्वाङ्गसुन्दरतनुर्वाग्देवी वसतु मे हृदये ।। श्रीमच्चन्द्रप्रभगणभृतः सारगम्भीरवाचां, गुम्फः क्वायं निबिडजडिमस्निग्धबन्धुः क्व चाऽहम् । किन्त्वेतस्मिन्निजगुरुपरिक्षुण्णमार्गे पुरस्ताद्; अस्तक्लेशं प्रसरतु ममाप्येष वाचां प्रचारः ।। ५. ३ इहानादितादात्म्यसम्बन्धाधिरूढगाढमिथ्यात्वतिमिरान्तरितविवेकलोचनमविरतप्रवृत्ताविरतिविषधरी विषमविषावेगविहस्तचेतसमुत्कटकटुकषायोदग्रग्रहग्रासावेशविह्वलमप्रतिमप्रमादमदिरामदमे दुरमुदारदुरधिषहशारीरमानसातिकटुकदुःखव्रातमुद्गरप्रपातनष्टचेतनमत्यन्तप्रबलकलिकालवशविलुप्यमानायुर्बलबुद्धिविभवं भव्यप्राणिगणमवलोक्य समुत्पन्नपरमकारुण्यरसतरङ्गरङ्गितान्तःकरणः स्वपरसमयापारपारावारपारदृश्वा चारित्रमहाराजराजधानीयमानमूर्तिः सुगृहीतनामधेयः श्रीचन्द्रप्रभसूरिस्तदनुग्रहाय नित्यानन्दसुखोपायभूतमर्हत्प्रवचनार्णवनिष्यन्दबिन्दुकल्पमल्पतरं दर्शनशुद्धिप्रकरणमुपदिदिक्षुः प्रत्यूहव्यूहापोहार्थं शिष्टसमयानुवर्तनार्थं च भावमङ्गलप्रतिपादकं श्रोतृजनप्रवृत्तिनिबन्धनाभिधेयप्रयोजनसम्बन्धाभिधायकं च प्रथममेव गाथायुग्ममाह - पत्तभवन्त्रवतीरं दुहदवनीरं सिवंबतरुकीरं । कंचणगोरसरीरं नमिऊण जिणेसरं वीरं । । १ । । वुच्छं तुच्छमईणं अणुग्गहत्थं समत्थभव्वाणं । सम्मत्तस्स सरूवं संखेवेणं निसामेह ||२|| १. अर्हं नमः सर्वज्ञाय नमः श्री A २. यतः A ३. स्मरणार्थमथात्मन: TC ४. व्याख्यातुं विषमागमार्थनिचितं गाम्भीर्य मुद्राञ्चितम् श्रीचन्द्रप्रभसूरिभिर्विरचितं ग्रन्थं कुधीः कोऽस्म्यहं । किंतु श्रीविमलाभिधानगणिभिः क्षुण्णोऽयमध्वाधिकं; चेतोऽस्मिन्निति मादृशामपि पदव्यासार्थमुत्कण्ठते ।। A मानसानेक A ६. कल्पतरं A ७. निबन्धनसम्बन्धप्रयोजनाभिधायकं T,B,C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy