________________
रणम् - सम्यक्त्वप्रकरणम्
किन्तु -
श्रीचन्द्रप्रभसूरिगुम्फितगिरामर्थेक्षणे तत्परं, चेतः किञ्च वचस्तदर्थभणनात्पूतात्म सम्पस्यते । कायस्तस्य विलेखनेन भविता व्यापारसारस्ततः;
सिद्धं मे परमार्थतः फलमिदं सत्कर्मलीनात्मनः ।। तत्र तावत्स्वभावेनैव महाविदेहापेक्षया न शुभभावानाममत्रं भरतक्षेत्रम्, सकलबुद्धि-बलायुषां ह्रस्वीकरणदर्पिणी चेयमवसर्पिणी, मिथ्यात्वोदयकारकश्चायं दुःषमानामारकः, संरुद्धावधिज्ञानजातिस्मरणसङ्गमः, प्रवृत्तश्चायं भस्मकग्रहोद्गमः, सञ्जातं चेदमसंयतपूजाप्राचुर्यं दशमाश्चर्यम् । किञ्चैदंयुगीनाः पुमांसः प्रायेण स्वीकृतमहाव्रता अपि न दृश्यन्ते संयमे रताः, पारम्पर्येण श्रावका अपि न सम्यक्त्वादिगुणैरात्मभावकाः, न च धर्मः सम्प्रत्येव विच्छित्तिमुपेष्यति, यतो भगवता श्रीवर्धमानस्वामिना समवसरणासीनेन दुष्प्रसभाचार्यपर्यवसानोऽसौ समगीर्यत ।।
परं गरीयांसः कुशाग्रीयबुद्धिसम्पाद्यबोधसम्बन्धाश्च सिद्धान्तशास्त्रप्रबन्धाः, स्थूलबुद्धिधनाश्च संप्रतितना जनास्ततो यथैते स्तोकेनैव हित्वा मिथ्यात्वम्, गृह्णन्ति सम्यक्त्वम्, प्रतिपद्यन्ते देशविरतिम्, स्वीकुर्वते सर्वविरतिम्, तथाविधातुं यत्नो युज्यत इत्यवधार्य करुणारसपरीतान्तःकरणतया सिद्धान्तादुद्धृत्य काश्चिद्यथावस्थिता एव गाथाः, काश्चिद् पुनस्तदर्थान् देवतत्त्वादिक्रमेण संकलय्य भविकजनबुद्धिलोचनान्तर्धायककलिकालबलोच्छलितमहामोहपटलापसारणप्रवरणसिद्धाञ्जनसमानम्, चलच्चारित्रधर्मराजभवनावष्टम्भनस्तम्भोपमानम्, मिथ्यात्वतमस्काण्डखण्डनप्रचण्डमार्तण्डमण्डलायमानम्, महादुर्लभमनुष्यजन्मोपलम्भसफलीकरणहेतुम्, भवाम्भोधिसेतुम्, रागाद्यरातिभीतजन्तुशरणम्, सम्यक्त्वप्रकरणमिदमल्पतरं चिकीर्षवश्चारित्रमहाराजराजधानीयमानमूर्तयः, सुविशुद्धसिद्धान्तोपनिषद्विचारणाद्भुतस्फूर्तयः, सकलश्वेताम्बरदर्शनप्रदीपोपमानाः प्रोन्मादिप्रतिवादिवारणघटाविघट्टनसिंहायमानाः, पचेलिमाप्रतिमप्रतिभाप्राग्भारपराभूतपुरुहूतसूरयः, पूज्यश्रीचन्द्रप्रभसूरयः प्रत्यूहव्यूहापोहा) शिष्टसमयाऽनुवर्तनार्थं च मङ्गलाऽभिधेयप्रयोजनाभिधायकं प्रथममेव गाथायुग्ममाहुः -