________________
५-तत्त्वतत्त्वम् गा-२७०, २७१
३७७
आस्ते तुङ्गो घनाभोगः सुप्रतिष्ठो भुवस्तले । आस्थानं द्विजसार्थानां श्रीकोटिकगणद्रुमः ।।२।। तत्रायता घनच्छाया सुमनःस्तोमसन्नता । वैरशाखास्ति विख्याता सदैव फलशालिनी ।।३।। गोभिः सुधावयस्याभिस्तर्पिताशेषभूतलम् । तस्यां सुवृत्तसंशोभि चान्द्रं विजयते कुलम् ।।४।। अर्हच्छासनकाननैकवसतिर्व्याख्यानगुञ्जारवैः, श्रोतृस्वान्तनिकुञ्जकल्मषमृगानुत्रासयन् सर्वतः । प्रोन्मादिप्रतिवादिवारणघटाविक्षोभदक्षोऽभवत्; तत्र श्रीजयसिंह इत्यवितथख्यातिं दधानः प्रभुः ।।५।। तच्छिष्यः समजायताद्भुतमतिश्चारित्रिणामग्रणीः, शास्त्रस्यास्य विधायकः कुशलधीनिःशेषशास्त्राध्वनि । लुप्तस्येह चिराच्चिरन्तनविधेरुद्धारकर्ता कलौ; श्रीचन्द्रप्रभसूरिरित्यभिधया ख्यातः क्षितौ सद्गुरुः ।।६।। एतत्पट्टधुरन्धरः शमनिधिः श्रेष्ठस्तपःशालिनां, प्रह्वः श्रीजयसिंहभूपतिशिरोरत्नांशुधौतक्रमः । अर्हच्छासनवार्धिवर्धनविधौ त राधिनाथोऽभवद् भव्याम्भोजवनप्रबोधनरविः श्रीधर्मघोषः प्रभुः ।।७।। आचारेण कुलीनता सुभगता रूपेण शान्त्या तपः, स्वामित्वेन गुणज्ञता विदुरता शीलेन दाक्ष्यं श्रिया । इत्थं यस्य पुरं कुटुम्बिन इवाध्यूषुर्गुणाः सुस्थिताः; शिष्यस्तस्य समन्तभद्रगणभृत्सोऽभूज्जगद्दीपकः ।।८।। शिष्यश्चान्योऽपि चन्द्रप्रभपरमगुरोरद्वितीयो द्वितीयो बन्धुः, श्रीधर्मघोषाभिधमुनिवृषभस्यानुजातोऽभिजातः । प्रज्ञाप्राग्भारपश्चात्कृतविबुधगुरुर्वाचनासूरिरुच्चैः;
अग्रे गण्यो मनीनां विमलगणिरिति श्लाघ्यनामा बभूव ।।९।। १. फलावन्ध्या महोन्नति: T,B २. कुवलयोल्लासि T,B३. वित्रास T,B