________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
संवत् १४९१ वर्ष आषाढ शुक्ले ८ अष्टम्यां तिथौ सोमवासरेऽद्येह श्रीस्तम्भतीर्थपुरवास्तव्यश्रीश्रीमालज्ञातीयसिन्धभार्या श्रा०ढे० वूतयोः सुणटवेलाकेन श्रीसम्यक्त्वप्रकरणवृत्तिश्रीश्रीपूर्णिमापक्षीयश्रीमुनिशेखरसूरितत्पट्टालङ्करणगच्छनायकश्री
लिखाप्य
३७६
-
पुस्तकं
श्री साधुरत्नसूरीणां निजगुरूणां प्रदत्ता | श्री ||
यादृशं पुस्तके दृष्टं तादृशं लेखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ।।
श्री ।। श्री ।। कल्याणं भूयादद्येह स्तम्भतीर्थे वास्तव्यलेखककामदेवेन लिखितम् ।।
देव० : मिथ्याऽज्ञानात् कुशास्त्रश्रवणाद्वा विपर्ययः, स एव दुर्लङ्घत्वेन महार्णवस्तस्य तारणे तरीं नावम्, अनेनाभिग्रहिकानाभिग्रहिकानाभोगजमिथ्यात्वस्य निरासः | आगमसमुद्रे बिन्दुसमाम्, कुग्राहः कदभिनिवेशः स एवासच्चेष्टाप्रवर्तकत्वेन ग्रहो भूताद्यावेशस्तदुच्चाटने मन्त्रम्, अनेनाभिनिवेशिंकस्य सन्देहविषौषधिं प्राग्वत्, अनेन तु सांशयिकस्य परमामेकान्तिकात्यन्तिकीम्, प्राग् नामप्रस्तावेन चैतदुक्तमिह तु स्वरूपनिरूपणद्वारेणेति न पौनरुक्त्यम्, विशेषणैश्चामीभिः पञ्चविधमिथ्यात्वनिरासदर्शिभिर्यदुक्तमादौ 'तं किंपि सिक्खियव्वं जं कज्जकरं च'इति तत्संवर्गितम्, आगमसमुद्रबिन्दुसमत्वेन च यदुक्तं 'थोवं च' इति तदिति ।।२७० ।।
एतां दर्शनशुद्धिं सर्वे भव्याः पठन्तु स्तवतः, निश्रृण्वन्त्वर्थतः । ततश्च जानन्तु द्वेधापि, ततोऽपि च ज्ञानस्य फलं विरतिरिति कृत्वा कुर्वन्त्वेतदुक्तमनुतिष्ठन्तु तदनुष्ठानस्य तु शिवसुखसाधनं प्रत्यविकलकारणत्वाल्लभन्तां शिवसुखं शाश्वतं झटिति, तदर्थत्वात्सर्वानुष्ठानानामिति गाथाद्वयार्थः ।।२७१।।
।। इति श्रीदेवभद्रसूरिविरचिते दर्शनशुद्धिप्रकरणविवरणे पञ्चमं तत्त्वतत्त्वं समाप्तम् ।। श्रीरस्तु ।। किर्मप्यूहाद् ग्रन्थान्तरविवरणेभ्यश्च किमपि, ज्ञसाचिव्यात् किञ्चिन्निजगुरुमुखाच्चाप्य किमपि । इयं दृब्धा वृत्तिस्तदपि यदसत् किञ्चिदुदितं, विशोध्यं तत्प्राज्ञैरविशदमतिर्मुह्यति न कः । । १ । ।
१. इह प्रायः शास्त्रान्तरविवरणादात्ममतिगुणाद्, बुधासन्नेः किञ्चिद् किमपि पुनराम्नायवशतः ।
इदं दृष्ट्वा वृत्तिस्तदिहं यदसत् किञ्चिदुदितम्, T,B