________________
३७८
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम
सरसा विचारबहुला सच्चक्रानन्दहेतुरस्ताघा । दर्शनशुद्धेर्वृत्तिः क्षमाभृतोऽजनि नदीव यतः ।।१०।। सूरिः श्रीदेवभद्राख्यस्तस्यशिष्योऽस्मि मन्दधीः । प्रतिष्ठितः स्वहस्तेन श्रीधर्मघोषसूरिभिः ।।११।। गुरोस्तेन बृहद्वृत्तेरुद्धृत्य कतिचिल्लवाः ।। निबद्धा वृत्तिरूपेण सत्त्वानां हितकाम्यया ।।१२।। सूरेः श्रीशान्तिभद्राख्यस्वशिष्यस्य महामतेः । साहाय्यादयमारम्भो निष्ठाकोटिमटीकत ।।१३।। मुनिप्रभाभिधानेन विदुषैषा स्फुटाक्षरा । अलेखि प्रथमादर्श विश्वविज्ञानशालिना ।।१४ ।। ग्रन्थाग्रं श्लोकमानेन वृत्तावस्यामुदीरितम् । बुधै स्त्रीणि सहस्राणि संयुतान्यष्टभिः शतैः ।।१५।। यावव्योमवने निरायतकरैर्नक्षत्रपुष्पावलीं, चिन्वानो वरिवर्तते प्रतिदिनं भास्वान्महामालिकः । ग्रन्थस्तावदयं सुवर्णनिधिवनानार्थसिद्धिप्रदः; तत्त्वप्रीतितरस्विनां कृतधियां चेतश्चिरं चुम्बतु ।।१५।। श्रीरस्तु ।।
। संशोधन-सम्पादन-प्रशस्तिका ।। दीक्षायुगप्रवर्त्तकव्याख्यानवाचस्पति-भावाचार्यतपागच्छाधिराज-पूज्यपादाचार्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां दीक्षाशताब्दीवर्षे तच्छिष्यालङ्कारवर्धमानतपोनिधिविंशतिस्थानकाद्यनेकतपःप्रभावकमुमुक्षु-मुनिवृन्दपाठनैककुशल-सहजसमाधिप्राप्तपूज्यपादाचार्यश्रीमद्विजयगुणयशसूरीश्वराणां सञ्चरणचञ्चरीकेण विजयकीर्तियशसूरिणा वैक्रमीये २०६८ तमे वर्षे संशोधितं सम्पादितञ्चेदं वादीभसिंहपूज्याचार्यश्रीचन्द्रप्रभसूरिविरचितं पूज्याचार्य श्रीचक्रेश्वरसूरिप्रारब्धतत्प्रशिष्यपूज्याचार्यश्रीतिलकसूरिनिर्वाहितवृत्तियुतं पूज्याचार्य श्रीदेवभद्रसूरिसंदृब्धान्यवृत्तिसमेतञ्च श्रीदर्शनशुद्धिप्रकरणमपरनामश्रीसम्यक्त्वप्रकरणम्। शुभं भवतु सकलश्रीसङ्घस्येति ।।
१. गङ्गेव यतस्तुङ्गाद्दर्शनशुद्धरजनि वृत्तिः T.B २. भव्यानां T,B ३. कर्मसु विश्वकर्मणा T,B