________________
दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम
भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसारः कर्माश्रवसंवरविधिश्च ।। निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च ।
बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ।। [प्रशमरति-१४९, १५०] प्रतिमाः मासिक्याद्याः १२ -
मासाई सत्तंता पढमाबिइ तइय सत्तराइदिणा ।
अहराइ एगराई भिक्खु पडिमाण बारसगं ।। [प्रव.सारो० ५७४] इन्द्रियाणां स्पर्शनादीनां निरोधो जयः ५, प्रतिलेखना वस्त्रपात्रादीनाम् २५, गुप्तयो मनोगुप्त्याद्याः ३, अभिग्रहा द्रव्यक्षेत्रकालभावविषयाः ४, एवं पुनः करणम्, इदं चोत्तरगुणरूपं प्राप्तकालमेवासेव्यमानत्वात् ।।२६४।।
देव० : तत्र व्रतानि प्राणातिपातविरमणादीनि पञ्च, श्रमणधर्मः क्षान्त्यादिर्दशधा, संयमः पृथिव्यादिसंरक्षणादिः सप्तदशधा, वैयावृत्त्यमाचार्यादिविषयं दशधा, स्त्रीषण्ढपशुमद्वसतियुवतिभुक्तासन-मिथुनकलितकुड्यान्तर-सरागवनिताकथा-प्राक्तनसुरतचिन्तन-कामिनीकमनीयाङ्गवीक्षण-स्वाङ्गसंस्कार-प्रणीतभोजन-अतिभोजनोज्झनस्वरूपा ब्रह्मगुप्तयो नव, ज्ञानादित्रिकं प्रसिद्धम्, तपोऽनशनादि द्वादशधा, क्रोधनिग्रहादिः क्रोधमानमायालोभजयः, एतत् किम् ? चरणं चारित्रमुच्यते । अत्राह-दशविधश्रमणधर्मे क्षान्तिमार्दवार्जवमुक्तीनामुक्तत्वादिह क्रोधादिनिग्रह इति न वाच्यम्, पुनरुक्तत्वादुच्यते-तत्र तेषामासेवनारूपत्वेन विधिरूपतया सङ्गीतत्वादिह त्विमे निग्रहरूपतया प्रतिषेधरूपाः परिज्ञातव्यास्ततो न पौनरुक्त्यं विधिप्रतिषेधयोभिन्नलक्षणत्वाद्, अथवा तत्र क्षान्त्यादिचतुष्टयग्रहणेन क्रोधाधिचतुष्टयनिरोध उक्तः, इह तु साधोरपि तथाभूतकारणवशाद् बलात्क्रोधादि विजृम्भणे तत्फलविपाकसंवेदनेन विफलतापादनं कार्यमिति क्रोधादिनिग्रह इत्युक्तमतो न पौनरुक्त्यम् ।
ननु च संयमतपसी अपि दशविधश्रमणधर्मग्रहणादुक्त एव, तत्कथं पृथगुपन्यस्यते ? उच्यतेप्राधान्यख्यापनार्थम्, तथाहि-संयमो गुप्तिकृत्, तपस्तु प्रागुपात्तकर्मक्षयकृदिति, एवं तर्हि वैयावृत्त्यग्रहणं न कार्यम्, द्वादशतपोग्रहणेनैवोक्तत्वाद्, उच्यते-एकादशविधं तप आत्मन एवोपकारि, इदं तु स्वपरोपकारित्वेन प्रधानमिति भेदोपन्यासभागित्यदोषः, ननु चैवं विनयः