________________
५-तत्त्वतत्त्वम् गा-२६३, २६४
३६७
कस्मान्न पृथगुक्तः ? असावप्युभयोरप्युपकारक इति, उच्यते-उक्त एवासौ 'वेयावच्चं चेति चशब्दग्रहणात्, ननु च चारित्रग्रहणं न कार्यम्, व्रतग्रहणादेवास्योक्तत्वाद्, न, चारित्रं समुदायरूपम्, व्रतानि तु चारित्रैकदेशस्ततश्च व्रतग्रहणे नाशेषचारित्रग्रहणमिति । तथा च सामान्यविशेषयोः कथञ्चिद्भेद एवेत्युक्तं चरणम् ।।२६३ ।।
तथा पिण्डस्य चतुर्विधाहारस्योपलक्षणत्वाच्छय्यावस्त्रपात्राणां च विशुद्धिरुद्गमोत्पादनैषणादोषमलाभावः, समितयः पञ्चेर्यादयः, भावना अनित्यतादयो द्वादश, प्रतिमाश्च मासिक्यादयो द्वादशैव, इन्द्रियाणि स्पर्शनादीनि पञ्च, तेषां निरोध इष्टानिष्टविषयेषु रागद्वेषपरिहारेण जयः, प्रतिलेखना वस्त्रपात्रादीनां पञ्चविंशतिधा, गुप्तयस्तिस्रो मनोगुप्त्यादयः, अभिग्रहा द्रव्यक्षेत्रकालभावविषयाश्चतुर्विधाः चः समुच्चये, एवत्ति एवम्, तुः पुनरर्थे, तेनैतदुक्तं भवति, करणं पुनरेवं भवति । ननु चरणं करणं चेति किं कृतो नामभेदो द्वयोरप्यासेवनारूपत्वात् ? उच्यते-चरणं मूलगुणरूपम्, करणं तूत्तरगुणस्वभावमित्यत एव । चर्यत इति चरणं सततासेवनारूपम्, तथाहि-व्रतादीनां यावत्कथं सततमासेव्यमानत्वात्, करणं तु कादाचित्कम्, तथाह्यभक्तार्थी न पिण्डमादत्ते । एवं समितयोऽपि कादाचित्काः सर्वदा गमनादेरयोगात्, भावना अपि विशिष्टकालविषया एव ध्यानोपरमादिषु भाव्यमानत्वात्, प्रतिमा अपि विशिष्टपुरुषकालविषया एव, तथेन्द्रियनिरोधोऽपीष्टानिष्टविषयप्राप्तौ रागादिवर्जनं क्वचित्, प्रत्युपेक्षणापि विशिष्टकालविषयैव, गुप्तयोऽप्यनियता एव, क्वचित्सङ्कुचितकायाद्यवस्थासु सम्भवात्, अभिग्रहा अपि क्वचिदेव काले पुरुषे वा स्युरिति । तदियता क्रियासहचरितमेव सम्यग्दर्शनं मोक्षायेति स्थापितमिति गाथाद्वयार्थः ।।२६४ ।।
* प्रवचनसारोद्धारे-५५१ * सम्प्रति 'चरणं'ति षट्षष्टं द्वारमाह -
वय समणधम्म संजम वेयावचं च बंभगुत्तीओ ।
नाणाइतियं तव कोहनिग्गहा इइ चरणमेयं ।। 'वये'त्यादिगाथादशकम्, व्रतानि प्राणातिपातविरमणादीनि परिग्रहविरमणान्तानि तथा श्रमणानां साधूनां धर्मः श्रमणधर्मः क्षान्तिमार्दवादिको दशभेदस्तथा सम्-एकीभावेन यमः-उपरमः संयमः सप्तदशभेदस्तथा व्यापिपति स्मेति व्यापृतस्तस्य भावो वैयावृत्त्यमाचार्यादिभेदाद्दशप्रकारं तथा ब्रह्म ब्रह्मचर्य तस्य गुप्तयो ब्रह्मचर्यगुप्तयस्ताश्च वसत्यादिका नव तथा ज्ञायतेऽनेनेति ज्ञानमाभिनिबोधिकादि तदादिर्यस्य