________________
५-तत्त्वतत्त्वम् गा-२६३, २६४
३६५
चक्रे० : अथ चरणकरणयोरेव स्वरूपमाहुः - देव० : अथ चरणकरणयोरेव स्वरूपमाह -
वय समणधम्म संजम वेयावञ्चं च बंभगुत्तीओ। नाणाइतियं तव कोहनिग्गहा इई चरणमेयं ।।२६३।। पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो ।
पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु।।२६४।। चक्रे० : व्रतानि प्राणिवधविरत्यादीनि ५, श्रमणधर्मः क्षान्त्यादिः १०, संयमः पृथ्व्यादिसंरक्षणादिः १७,
पुढवीदग अगणि मारुय वणसइबिति चउ पणिंदि अजीवे ।
पेहुप्पेह पमज्जण परिठवण मणोवईकाए ।। [दशवै. नि. ४६] वैयावृत्यमाचार्यादीनाम् १०, तद्यथा -
आयरिय उवज्झाए थेर तवस्सी गिलाणसेहाणं । साहम्मिअकुलगणसंघसंगयं तमिह कायव्वं ।। [दशवै.नि. ४७-१]
ब्रह्मगुप्तयः ९,
वसहि कह निसिजिदिय कुटुंत्तर पुव्वकीलिय पणीए ।
अइमायाहारविभूसणा य नव बंभगुत्तीओ ।। [प्रव.सारो० ५५८] ज्ञानादित्रिकं प्रतीतम् ३, तपोऽनशनादि १२, क्रोधनिग्रहादिः क्रोधादिजयः ४, इत्येतञ्चरणं चारित्रं मूलगुणरूपम्, यावज्जीवमासेव्यमानत्वात् । इह चादरार्थं केषाञ्चिद् भेदानां पुनर्भणनान्न पौनरुक्त्याशङ्का कार्या।।२६३ ।।
तथा - पिण्डस्याऽशनपानखाद्यस्वाद्यरूपस्य, यद्वा पिण्डस्योपलक्षणत्वात् शय्यावस्त्रपात्राणां च विशुद्धिर्द्विचत्वारिंशद्दोषरहितत्वम् ४, समितय ईर्याद्याः ५, भावना अनित्यताद्याः १२,
तथा च - १. निग्गहाई A. निग्गहा इइ z