________________
५-तत्त्वतत्त्वम् गा-२६२
३६३
चक्रे० : उक्तमेवार्थमुदाहरणद्वारेण समर्थयितुमाहु - देव० : उक्तमेवार्थमुदाहरणद्वारेण समर्थयितुमाह -
चरणकरणेहिं रहिओ न सिज्झई सुटुसम्मदिट्ठी वि।
जेणागमंमि सिट्ठो रहंधपंगूण दिटुंतो।।२६२।। चक्रे० : स्पष्टा, नवरं रथदृष्टान्तः -
संजोग सिद्धीइ फलं वयंति न हु एगचक्केण रहो पयाइ । अथान्धपङ्गुदृष्टान्तः, तत्राऽन्वयेनाऽयम् -
____ अंधो य पंगू य वणे समिच्चा ते संपउत्ता नगरं पविट्ठा ।। [आव.नि. १०२] व्यतिरेकस्तु -
पासंतो पंगुलो दड्डो धावमाणो य अंधओ । सम्प्रदायगम्यौ चेतौ, तथाहि - कुतोऽपि नगराल्लोको विपक्षातङ्कशङ्कया । अरण्यं शरणीचक्रे किञ्चिद्वैरिदुरासदम् ।।१।। अपरेछुः पुनस्तत्राप्यवस्कन्दभयातुरः । आत्तप्राणः पलायिष्ट विमुच्य शकटादिकम् ।।२।। तत्राभूतां पुमांसौ द्वावन्धपते निराश्रयौ । तथैव तस्थतुस्तौ च निःस्वत्वादकुतोभयौ ।।३।। धाटीभटेषु तत्रैत्य मोषं मोषं गतेष्वथ । दावानलः प्रजज्वाल कल्पान्ताग्निरिवोत्थितः ।।४।। अथ दावोन्मुखो धावन्नन्धः प्रौच्यत पङ्गुना । जिजीविषुर्मुमूर्षुर्वा किं दावमभियासि भोः ।।५।। सोऽवदत्तर्हि भो भद्र ! क्व याम्याख्याहि जीवितुम् । आकर्षय मुखान्मृत्योः प्राणदानं ह्यनुत्तरम् ।।६।। ततस्तं पङ्गुरूचेऽन्धमेहि स्कन्धे निधेहि माम् । येन मद्दृष्टमार्गे स्यान्निरपाया भवद्गतिः ।।७।। अन्धोऽपि युक्तं पङ्गुक्तं मन्यमानः सपद्यपि । तथैव विदधाति स्म प्राणभीमहती हि भीः ।।८।। ततः समेतौ तौ स्थानं जग्मतुभवपीप्सितम् । एवं दर्शनचारित्रेऽपि [सायुक्ते शिवप्रदे ।।९।। व्यतिरेकस्तु - उदस्थान्नगरे क्वापि परितोऽपि प्रदीपनम् । कुर्वाणमिव लोकानां लङ्कादाहप्रकाशनम् ।।१।। ततोऽनश्यज्जनः सर्वः कुर्वन् हाहारवं जवात् । कष्टेन महता तस्मात् प्राणमात्रधनस्तदा ।।२।।
१. सिज्झइz