________________
३६२
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
चक्रे० : एवमुक्तं मोक्षहेतुः सम्यक्त्वम्, परं तद्विरतिसहायं ज्ञेयम्, अविरतसत्कस्य निकाचितकर्मक्षयकृतस्तपसोऽप्यसारत्वादित्याहुः -
देव० : एकमेकान्तिकसौख्यहेतुः सम्यक्त्वमुक्तं तत्पुनर्विरतिसहायमेव ज्ञेयम्, तद्विना कृतस्य निकाचितकर्मक्षयकृतस्तपसोऽप्यसारत्वादिदमेवाह -
सम्मद्दिहिस्सवि अविरयस्स न तवो बहुफलो होइ।
हवइ हु हत्थिण्हाणं चुंदच्छिययं व तं तस्स।।२६१।। चक्रे० : मिथ्यादृष्टितपसस्तावत्तामलिदृष्टान्तादेवासारत्वं प्रसिद्धम् । सम्यग्दृष्टेरप्यविरतस्य तपो न बहुफलं न मोक्षफलं भवति । हुर्यस्मादर्थे यस्मात् तत्तस्य तपो हस्तिस्नानं हस्तिस्नानमिव भवति । यथा हस्ति स्नात्वा पुनधूलिमङ्गे निक्षिपति । एवमयमपि तपसा कर्म क्षपयित्वा पुनरविरत्या बध्नाति । चुंदांछितकमिव चुंदाछितकं वा । चुंदं तक्ष्णामुपकरणविशेषस्तस्यां छितकमाकर्षणम् । एतद्धि वध्रीभिरावेष्ट्य कराभ्यामाकृष्यते । तत्र यदा वामकरेणाकृष्यते । तदा दक्षिणतो वध्रीवेष्टकैः पूर्यते । यदा तु दक्षिणेन तदा वामतः । एवमयमप्येकतस्तपसा कर्म क्षपयत्यन्यतस्त्वविरत्या बनातीत्यर्थः ।।२६१ ।। देव० : मिथ्यादृष्टेस्तपसस्तावदसारत्वं सुस्थितमेव, तथा च -
सटुिं वाससहस्सा तिसत्तखुत्तोदएण धोएण ।
अणुचिन्नं तामलिणा अन्नातवोत्ति अप्पफलो।। [उपदेशमाला-८१] सम्यग्दृष्टेरपि सावधयोगेभ्योऽविरतस्य न तपोऽनशनादि बहुफलं शिवसुखफलं भवति, स्वर्गादिसुखफलं तु भवत्येव, किन्तु तस्याल्पत्वाप्त्, किमित्येवमित्याह-हुर्यस्मादर्थे, यस्मात्तत्तपस्तस्य हस्तिस्नानमिव हस्तिस्नानं भवति, यथा हि हस्ती स्नात्वा पुनधूलिपुञ्जमङ्गे निक्षिपति, एवमयमपि तपसा कर्म क्षपयित्वा पुनरविरत्या बध्नाति, चुंदां छितकं वात्राप्युपमानार्थो वाच्यः, चुंदं तक्ष्णामुपकरणविशेषस्तस्यां छितकमाकर्षणम्, एतद्धि वध्रीभिरावेष्ट्य कराभ्यामाकृष्यते, तत्र यदा वामकरेणाकृष्यते तदा दक्षिणतो वध्रीवेष्टकैः पूर्यते, यदा तु दक्षिणेन तदा वामतः । एवमयमप्येकतस्तपसा कर्म क्षपयति, अन्यतस्त्वविरत्या बध्नातीत्यर्थ इति गाथार्थः ।।२६१।।
१. वुद A,B २. वृंदां छितकं A३. बुंदं A