________________
५- तत्त्वतत्त्वम् गा - २६०
सन्नित्याह- काङ्क्षादिविस्रोतसिकारहितः काङ्क्षा अन्यान्यदर्शनग्रहः, आदिशब्दाद्विचिकित्सादिपरिग्रहः, शङ्का तु निःशङ्कमित्यनेनैव गता, काङ्क्षादय एवं विस्रोतसिकां संयमसस्यमङ्गीकृत्याऽध्यवसायसलिलस्य विस्रोतो गमनं तया रहित इति ।।८१२ ।।
चक्रे० : अथ प्रकृतं निगमयन्तः सम्यक्त्वफलमाहुः देव० : प्रकृतमेव निगमयन् सम्यक्त्वफलमाह
एवंविहपरिणामो सम्मद्दिट्टी जिणेहिं पत्रत्तो । एसो उ भवसमुद्दं लंघइ थोवेण कालेन । । २६० ।।
चक्रे० : एवंविध उपशमादिरूपः परिणामो यस्य स तथा सम्यग्दृष्टिर्जिनैः प्रज्ञप्तः । तुरेवकारार्थः, एष एव भवसमुद्रं लङ्घयति स्तोकेन कालेन । तथा चागमः
३६१
'उक्कोसदंसणेणं भंते जीवे करहिं भवग्गहणेहिं सिज्झिज्जा ? गोयमा ! उक्कोसेणं तेणेव तओ मुक्के तइयं नाइक्कमइत्ति ।। २६० ।।
-
देव० : एवंविध उपशमादिरूपः परिणामो यस्य स तथा सम्यग्दृष्टिर्जिनैः प्रज्ञप्तः, एष एवोत्कृष्टदर्शनाराधको भवसमुद्रं लङ्घयति स्तोकेन कालेनोत्कृष्टतस्तेनैव भवेन, जघन्यतस्तृतीयेन, तथा चागमः
-
उपसंहरन्नाह -
'उक्कोसदंसणेणं भंते जीवे कइहिं भवग्गहणेहिं सिज्झिज्जा ? गोयमा ! उक्कोसेणं तेणेव तओ मुक्के तइयं नाइक्कमइ 'त्ति गाथार्थः । । २६० ।।
* धर्मसंग्रहण्याम्-८१३, श्रावकप्रज्ञप्तौ - ६० *
एवंविहपरिणामो सम्मदिट्ठी जिणेहिं पन्नतो । एसो य भवसमुद्दं लंघइ थोवेण कालेणं ।।
एवंविधपरिणामोऽनन्तरोद्दिष्टप्रशमादिपरिणामः सम्यग्दृष्टिर्जिनैः प्रज्ञप्तः । अस्यैव फलमाह एष च सम्यग्दृष्टिर्भवसमुद्रं लङ्घयत्यतिक्रामति, स्तोकेन कालेन प्राप्तबीजत्वादुत्कर्षतोऽप्यपार्द्धपुद्गलपरावर्त्तेन किञ्चिदूनेन सिद्धिप्राप्तेः । । ८१३ ।।