________________
५- तत्त्वतत्त्वम् गा- २४९
३४७
अन्यदा प्राग्भवोद्भूतक्षुदातङ्कस्मृतेर्नृपः । उज्जयिन्याश्चतुर्दिक्षु सत्रागाराण्यचीकरत् ।।७५।। गुणवानगुणः स्वीयः परो वेत्यविशेषितम् । विश्रब्धस्तेषु भुक्त्वाथ सुष्वाप प्रमदाज्जनः ।। ७६ ।। भक्त्या विज्ञपयामास गुरुं चार्यसुहस्तिनम् । अनुगृह्णीत मां भक्तपानादिग्रहणाद्विभो ।। ७७ ।। प्रत्यवोचन्नृपं सूरिः कल्याणी ते मतिर्नृप । किन्त्वाद्यान्तिमतीर्थ्यानां राजपिण्डो न कल्पते ।।७८ ।। आहूय सत्राधिकृतानन्येद्युरवदन्नृपः । सत्रेष्वन्नादिना भुक्तशेषेण क्रियते किमु ।। ७९ ।। अवदंस्ते तदस्माकं भवनेषूपयुज्यते । ततस्तानादिशद्भद्रास्तत्साधुभ्यः प्रयच्छत ।। ८० ।। अहं वो वितरिष्यामि मूल्यं बत समर्गलम् । यन्नामी राजपिण्डत्वात् किञ्चिद् गृह्णन्ति । ८१ ।। एवं पौपिकसार्पिष्कप्रमुखा वणिजः स्वयम् । राज्ञा सप्रणयं प्रोक्ताः प्रदाने स्वस्ववस्तुनः ।।८२।। राजाज्ञा स्यात्कृता पुण्योपार्जना च यथातथा । इत्यालोच्य वचो राज्ञः सर्वे ते बहु मेनिरे ।। ८३ ।। ततः स्वादिष्टपानान्नखाद्यादीन्यादराज्जनैः । वस्त्रपात्राणि चात्यर्थं प्रत्यलाभ्यन्त साधवः ।।८४।। महागिरिश्च तज्ज्ञात्वानुशास्ति स्म सुहस्तिनम् । आर्येदं भक्तपानादि नैषणाशुद्धिमृच्छति ।।८५ ।। शिष्यानुरागतः सोऽपि तदवद्यं विदन्नपि । अपह्नुते स्म हि मोहस्तादृशेष्वप्यनर्गलः ।। ८६ ।। प्रभो नैवात्र शङ्कापि कार्या यस्मादसौ प्रजा ।
I
भाक्तिकं वीक्ष्य राजानमस्मास्वाद्रियतेतराम् ।।८७।। यदुक्तम् राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । राजानमनुवर्तन्ते यथा राजा तथा प्रजा ।।८८ ।। आः किमस्मात्परं पापं यदकृत्यं विदन्नपि । सेवते किञ्च कृत्यत्वं तस्यैव स्थापयत्यसौ । । ८९ ।। तदुत्पथस्थितस्यास्य सहावासेन किं मम
I
।
इति बुद्ध्या व्यधात्तस्य विसम्भोगं महागिरिः । । ९० ।। युग्मम् सुहस्तिनि ततः सद्यो विवेकः कश्चिदुद्ययौ । निर्म्मथात्सदुपक्रान्ताच्चित्रभानुरिवारणौ ।। ११ ।। ततोऽसौ गर्हमाणः स्वं पादलग्नो महागिरिम् । प्रतिपद्य स्वकं दोषं क्षमयामास तत्क्षणात् ।।९२।। प्रायश्चित्तं वितीर्यार्य महागिरिरमुं रयात् । अन्तश्चकार मण्डल्याः सन्तो हि प्रह्ववत्सलाः ।।९३।। अन्यदा सम्प्रतिभूपः सर्वानाजूहवन्नृपान् । अनार्यानार्यमूर्धन्यो जैनशासनभावितः ।।९४।। धर्मं विस्तरतस्तेषामाचचक्षे विचक्षणः । सर्वतो गमयित्वा च ग्राहयामास दर्शनम् ।।९५ ।। प्रभुश्चेदस्मि वः सम्यग् भवत श्रावकास्तदा । एतदेवार्थये युष्मन्नार्थादीत्यादिदेश च ।। ९६ ।।