________________
५-तत्त्वतत्त्वम् गा-२४९
३४५
1
न्यायेन लालयन् ग्रामलोकं गीतकलाप्रियः । कुणालः कालममरकुमारक इवानयत् ।।३५।। स रङ्कजीवस्तत्रास्य सुतत्वेनोदपद्यत । ततः कुणालो राज्यार्थी पाटलीपुत्रमायौ ।। ३६ ।। तत्रात्मवश्यतां पौरान् मृगानिव नयन्नयम् । विपञ्ची श्रुतिभिः स्फीतं प्रगीतो गीतमद्भुतम् ।। ३७।। गीतकलया सद्यो बन्दितामधिरोपिताः । तं राज्ञः पुरतः पौरा वर्णयामीति चक्रिरे ।। ३८ ।। अस्ति कश्चिदिहायतो देव सम्प्रति गायनः । यस्याऽपौंस्नी कला गीतौ वर्ण्यते किमतः परम् ।। ३९ ।। ततस्तमाह्वदुर्वीशः कौतुकोत्सुकमानसः । व्यङ्गत्वाच्चान्तरे कृत्वा प्रतिसीरामजीगपत् ।। ४० ।। बभाण प्रीणितोऽत्यर्थमथ गीतामृतोर्मिभिः । हंहो वृणु वरं स्वैरं त्वं गाथकमतल्लिके ।।४१।। 'केलितावसरः कालवेदी स्वाजन्यसूचकम् । जगौ प्रगल्भकलवाक् कुणालः श्लोकमीदृशम् ।।४२।। प्रपौत्रश्चन्द्रगुप्तस्य बिन्दुसारस्य नप्तृकः । अशोकश्रीतनुजोऽन्धो याचते तात काकिणीम् ।।४३।। चिरं रूढमपि प्राच्यशोकमुद्भिन्नमुद्वहन् । तस्मात्तद्वचसः खड्गप्रहारमिव गर्जितात् ।।४४।। आगच्छागच्छ वत्सेति दूरोदञ्चद्भुजो नृपः ।
I
आहूय सस्वजे सूनुं वक्षः सिञ्चन् घनाश्रुभिः ।।४५ ।। युग्मम् स गद्गदमवादीच्च याच्योऽहं त्वं च याचकः । काकिणीति त्वया क्षुद्रं किमेतद्याचितं ततः ।। ४६ ।। अथोक्तं मन्त्रिभिर्नाल्पमिदं किन्तु बहु प्रभो । राज्यं हि काकिणी राज्ञां कुमारस्तदयाचत ।।४७।। सास्रं प्राह नृपः पुत्र राज्यं लभ्यं त्वया भृशम् । त्वन्नेत्रे हरता किन्तु वेधसा न खलायितम् ।।४८।। सोऽभ्यधात्तात राज्याय मौक्तिकायोषबिन्दुवत् । नार्होऽस्मि नूनमर्हस्तु सुतो मे मेघबिन्दुवत् ।।४९।। जोचे ते कदा सूनुः सोऽभ्यधात्तात सम्प्रति । ततः प्रीतः सुतं वेगादानयेत्यादिशन्नृपः ।। ५० ।। तमानीतं ततः पश्यन्नवितृप्तैर्विलोचनैः । भूभृन्नाङ्गेषु मातिस्म विस्मयस्फुटकण्टकः ।। ५१ ।। १. ततस्तत्कालमुत्फुल्लपुलकोत्तभितांगकः । जगौ सम्बन्धगर्भिण्या कुणाल : कलया गिरा । । ४९।। चन्द्रगुप्तप्रतिपौत्रो बिन्दुसारस्य नप्तृकः । राज्ञोऽशोकश्रियः पुत्रो याचते तात ! काकिणीम् ।। ५० ।। ततस्तद्वचसः स्निग्धाद्गर्जितादसिघातवत् । शोकसंभारमुर्वीशः पुनरुद्भूमुद्वहन् ।। ५१ ।। आगच्छागच्छ वत्सेति दूरोदञ्चद्भुजद्वयः । आहूय सस्वजे सूनुं वक्षः सिञ्चन् घनाश्रुभिः ।। ५२ ।। सगद्गदमवादीच्च त्वया वत्स क्रमागतम् । राज्यं हि काकिणीशब्दात् कुलजीवितं याचितम् ।।५३।। तदत्रोत्कण्ठिताः कामं त्वत्तो हि वयमास्महि । चिन्तारत्नं हितार्थि स्युः किंत्वस्यैवार्थिनो जनाः । । ५४ ।। त्वच्चक्षुर्दस्युनास्माकं धात्रा किं नु खलायितम् । भाजनं हरताधानां यथातः किमु कुर्महे ।। ५५ ।। सोऽभ्यधात्तात नाहोऽस्मि राज्यायाम्बुधिबिन्दुवत् । मौक्तिकाय तथाप्यर्हः सुतो मे घनबिन्दुवत् ।।५६ ।। T,C