SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३४४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् राजा स्वहस्तविन्यस्तवर्णानि लिखितान्यथ । प्राहिणोदन्वहं स्नेहामृतस्यन्दीनि सूनवे ।।१७।। कलाग्रहणकालं च सूनोख़त्वान्यदा नृपः । स्वयं लिखित्वा लिखितमवन्त्यां प्राहिणोदिति ।।१८।। अधीयतामधिकृता हितचिन्ताभरश्चिरम् । कुमारस्त्यक्तनिःशेषापरव्यापारमादरात् ।।१९।। असंवृत्यैव तं लेखं देहचिंताचिकीर्षया । नृपः प्रमादादुद्घाटं मुक्त्वा निधिमिवोत्थितः ।।२०।। नृपपाोपविष्टासीत् काचिद्देवी तदा किल । सा लेखं वाचयन्त्युच्चैरभून्मत्सरपिच्छिला ।।२१।। दत्त्वा बिन्दुमकारस्य व्यधादंधीयतामिति । कौशलं कुसृतौ किंचिदनाचार्य हि योषिताम् ।।२२ ।। निवृत्तेन पुनर्लेखोऽप्रतिवाच्यैव भूभुजा । संवर्त्य मुद्रितः स्थूलः प्रमादस्तादृशामपि ।।२३।। तं राज्ञा प्रेषितं प्रेक्ष्य कुमारः पिप्रियेतराम् । क्षुद्वानिव शिशुः प्राप्य विषाक्तमपि मोदकम् ।।२४ ।। उन्मुद्र्याधिकृतेनोच्चैर्यावल्लेखः प्रवाचितः । तावदालोकि दुर्वाचं दुःश्रावं चेदमग्रतः ।।२५।। तदुच्चारणदुःस्थेऽस्मिन् मौनमास्थाय तस्थुषि । उत्सुकस्तत्कराल्लेखं कुमारः स्वयमग्रहीत् ।।२६।। लेखाधिगमेऽध्यासीदवार्य मौर्यशासनम् । तच्चेन्मयि स्खलत्यन्यः कस्तदा पालयिष्यति ।।२७।। इत्यानञ्ज दृशौ सद्यः सन्तप्तायःशलाकया । मामेति तुमुलं जल्पत्यनल्पं मन्त्रिमण्डले ।।२८ ।। किंवदन्ती ददन्ती सा मूर्छामूर्वीपतेर्भृशम् । प्राविशत्कर्णयोस्तप्तत्रपुधारानुकारिणी ।।२९।। मूर्छान्ते शोकसन्तापनिद्बाष्पप्लुतेक्षणः । विललाप विशामीशो रोदयनिव रोदसी ।।३०।। हा वत्स ! स्वच्छहदय कुलाधार कलानिधे । विनीत स्फीतदाक्षिण्य विवेकिन् मधुराकृते ।।३१।। किमेवमविविच्यैव विमर्शकशिरोमणे । व्यधास्त्वं निघृणं कर्म मम भाग्यविपर्ययात् ।।३२ ।। विविश्वानेवमुर्वीशः शोकोत्कर्षवशां दशाम् । कथञ्चिन्मन्त्रिभिर्विद्यावयोवृद्धैरबोध्यत ।।३३।। राज्यानह इति ग्राममेकं दत्त्वास्य जीवने । उज्जयिन्याः प्रभुत्वेऽन्यं सुतं राजा न्ययोजयत् ।।३४।। १. अविविच्यैव चक्षुष्यहो कथं जघ्निथाक्षिणी । पशुचेष्टानिर्विशिष्टं धिक्तेजोऽप्यविवेकिनाम् ।।३७ ।। लिखितेऽध्ययने कार्य ही कथमंधताभवत् । अहह व्यापृतः पाणिविधे ! मत्सरिण: क्वचित् ।।३८।। मनोरथः कथं सिध्येन्नियतेयंत्र वामता । वर्तन्ते नहि शस्यानि वैगण्येऽम्बभत: क्वचित ।।३९।। विविश्वानेवमुर्वीशः शोकोत्कर्षवशांदशाम् । मन्त्रिभिः श्रुतवयोवृद्धैः कथञ्चित्प्रत्यबोध्यत ।।४०।। राज्याऽनोऽयमित्यस्मै ततो ग्राममदान्नृपः। अयोग्येषु नहि प्रेम्णा तत्त्वज्ञैय॑स्यते पदम् ।।४१।। तद् ग्रामस्थ: कुणालोऽथ व्यापारान्तरवर्जितः । काञ्चिद्गीतकलां भेजे हाहाहूहूपहासिनीम् ।।४२।। पुत्रभूयं समुत्पन्ने तस्मिन्निश्चेत्यदामुना । कुणाल: पाटलीपुत्रमागान्मथोरथैर्वृतः ।।४३ ।। तत्रात्मवश्यतां पौरान् श्रोतांसीवमनोनयत् । विपञ्ची स्वरसौभाग्यं प्रगीतो गीतमद्भूतम् ।।४४ ।। T.C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy