________________
५-तत्त्वतत्त्वम् गा-२४९
३४३
भक्तदानाद् भविष्यन्तं प्रेत्य शासनदीपकम् । श्रुतातिशयतो ज्ञात्वा तत्त्ववित्तमभाषत ।।९।। जिघत्सुर्वत्स चेद्दीक्षा कक्षीकुरु तदाहतीम् । इति तं दीक्षितं स्वैरं स्निग्धस्वादून्यभोजयत् ।।१०।। तेनातिमात्रभुक्तेन नक्तं जातविसूचिकः । मृत्युमासादयामास समाधिसुधयोक्षितः ।।११।। इतश्च पाटलीपुत्रमित्यस्ति नगरं गुरु । मौर्यवंशध्वजश्चन्द्रगुप्तस्तत्राभवन्नृपः ।।१२।। ततो जनदृशामिन्दुर्बिन्दुसारनृपोऽजनि । मूर्धा यच्छासनं भूपैर्दभ्रे बिन्दुरिवाक्षरैः ।।१३।। तस्मादासीदशोकश्रीभूधरो हिमवानिव । पावनी व्यानशे कीर्तिगङ्गायत्प्रभवा भुवम् ।।१४ ।। प्राणेभ्योऽपि प्रियः पुण्यैर्लक्षितो राजलक्षणैः । अभूदायतदोर्नाल: कुणालस्तस्य नन्दनः ।।१५।। अनिष्टशङ्किना मातृसपत्नीभ्यः स भूभृता । बालोऽप्यवन्त्यां कौमारभुक्तौ प्रेम्णा व्यसृज्यत ।।१६।। १. कांक्षीकुरु T.C २. प्रणिधानपरायणः A ३. ततो राजकुमारस्य कुणालस्य विचक्षुषः । अव्यक्तसामायिकताप्रभावादभवत्सुतः ।।१२।। अथोत्पत्तिं कुणालस्य शृणुतावहिताः क्षणम् । तत्रास्ति पाटलिपुत्रं प्रति सर्वपुरां पुरम् ।।१३।। नरेन्द्रश्चन्द्रगुप्तोऽस्मिन्मौर्यवंशमणिर्गुणी । आसीत् स्वयंवरायातराज्यश्रीः प्राज्यविक्रमः ।।१४।। ततस्तस्याभवत् सूनुर्बिन्दुसारो धराधिपः । यच्छाशनं नृपैमूर्धा दधे बिन्दुरिवाक्षरैः ।।१५।। तस्मादभूदशोकश्रीः शोकापनुददर्शनः । सुकृतोपस्कृतोपायैर्यस्यानन्दः सदैव हि ।।१६।। T.C ४. पित्रा मातृसपत्नीभ्यो विघ्नसम्भवभीलुना । दत्त्वावन्ती सहामात्यैः शैशवेऽपि व्यसर्जिसः ।।१८ ।। तत्र च क्षितिभृत्सूनोः क्षेमोदन्तपिपासितः । स्वहस्तलिखिताल्लेखान् प्रेष्यत्प्रेम्णा मुहुर्मुहुः ।।१९।। तस्य विद्यावधूकेलिकाले कालविदन्यदा । अधीयतां कुमारोऽयमिति लेखं नृपोऽलिखत् ।।२०।। असंवत्यैव तं लेखमुदस्थाद्देहचिन्तया । नृपः श्रीमानशोकश्रीरपिधाय निधिं यथा ।।२१।। तस्मिंश्चिदैवता कस्मात्काचित्तत्र विसर्पिणी । सर्पिणीवागमद्राज्ञी कौटिल्यकुलमन्दिरम् ।।२२।। लेखार्थाधिगमात्तस्याः पापायाः कोऽपि मत्सरः । क्षीरपानान्महोरग्या विषोद्गार इवोदगात् ।।२३।। अनुस्वारमकारस्य दत्वाह्राय व्यधात्ततः । अंधीयतां कुमार इत्यही स्त्रीणां नृशंसता ।।२४ ।। अलक्ष्य दक्षतायोगात्तथैव च मुमोच तं । अनाचार्यं हि कौशल्यं कुसृतौ बत योषिताम् ।।२५।। प्रत्यावृत्तेन भूभाऽप्रतिवाच्यैव मुद्रितः । ही मुह्यन्ति महान्तोप्यशुभोदके हि भाविनि ।।२६।। वन्दित्वोन्मुव्य कौमारैः सचिवैः सप्रवाचितः । यावत्तावदवलोकि तत्कार्यमतिदारुणम् ।।२८ । अकाण्डकुलिशोत्पात दुस्सहां दधतो दशाम् । तूष्णीं तस्थुर्मियो म्लानमुखाम्भोजेक्षिणस्ततः ।।२९।। कुमारस्तानवोचत्किं व्यरंसिष्टार्द्धवाचिते । ताताज्ञोक्तस्य मेऽज्ञातस्येवार्द्धपरिवेषिते ।।३०।। तेषामितिप्रणुन्नापि चिन्ताश्रोतश्विनी जुषां । विषादपङ्कनिर्मग्नायावद्गीनैव निर्ययौ ।।३१।। तावल्लेख करात्तेषां जटित्याच्छिद्य सोग्रहीत् । अवार्यविषवीर्योग्रं यथा हि माहितुंडिकः ।।३२।। लेखार्थाधिगमेऽध्यासीदवार्य मौर्यशासनम् । तच्चेन्मयि स्खलत्यन्य: कस्तदाबतपास्यति ।।३३।। इत्यानञ्ज दृशौ सद्यः सन्तप्तायःशलाकया । असूत्रं सूत्रयन्हारं शोकाश्रमत्रिणां हदि ।।३४।। T.C