________________
३४२
म - सम्यक्त्वप्रकरणम
विस्तारविषयत्वेन ज्ञानस्य रुचेरपि तद्विषयत्वादस्य ज्ञानपूर्विकाभिरुचिः ।
दसणनाणचरित्ते तवविणए सच्चसमिइगुत्तीसु ।
जो किरिया भावरुई सो खलु किरियारुई नाम ।। दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्तीत्यर्थः । चारित्रान्तर्गतत्वेऽपि तपआदीनां पुनर्भणनं विशेषमुक्त्यङ्गत्वख्यापनार्थम् ।
__ अणभिग्गहिय कुदिट्ठी संखेवरुइत्ति होइ नायव्वो ।
अविसारओ पवयणे अणभिग्गहिओ य सेसेसु ।। उक्तविशेषणो यः संक्षेपेणैव चिलातीपुत्रवत् प्रशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स संक्षेपरुचिरित्यर्थः ।
जो अत्थिकायधम्मं (अस्तिकायानां धर्मादीनां धर्मं गत्युपष्टम्भादिपर्याय) सुयधम्मं खलु चरित्तधम्मं च ।।
सद्दहइ जिणाभिहियं सो धम्मरुइत्ति नायव्वो ।। [प्रव.सारो. ९५०-६०] धर्मेषु पर्यायेषु धर्म वा श्रुतधर्मादौ रुचिरस्येतिकृत्वा । शिष्यमतिव्युत्पादनार्थं चेत्थमुपाधिभेदेन सम्यक्त्वभेदाभिधानमन्यथा हि निसर्गोपदेशयोरधिगमादौ वा क्वचित् केषाञ्चिदन्तर्भाव इति भावनीयमिति । एवं सम्यक्त्वस्य कर्मक्षयलक्षणमनन्तरफलं तद्भेदाश्च प्रतिपादिताः, सम्प्रति तस्यैव परम्परफलप्रतिपादनपुरस्सरं तत्पालने दृष्टान्तमाह- सम्यक्त्वं मोक्षतरोर्बीजभूतमनेन मोक्षः परम्परफलमेतस्येत्यभिहितम्, सम्प्रतिराजवद्धारयेत्, सम्प्रदायगम्यश्चायमर्थस्तथाहि -
अस्ति वत्सेषु कौशाम्बी नगरी निर्जितालका । वसन्ति धनिनो यस्यामतिपुण्यधनेश्वराः ।।१।। तस्यां पुर्यामथाचार्यों महागिरिसुहस्तिनौ । युगाग्रण्यावनुग्रामं विहरन्तावुपेयतुः ।।२।। तत्रैकच्छत्रदुर्भिक्षे भिक्षाहेतोः सुहस्तिनः । साधुसङ्घाटकः प्रापदेकमीश्वरमन्दिरम् ।।३।। धन्यंमन्यस्तमानम्य गृहेशः सपरिच्छदः । खण्डखाद्यादिभिर्भोज्यैरतिप्राज्यैरुपास्थितः ।।४।। तदाग्रहाज्जगृहतुः स्तोकं स्तोकं तु तौ मुनी । भिक्षाकस्तादृगद्राक्षीदेकस्तद्विस्मितेक्षणः ।।५।। विवेकलोचनस्यान्धं करिण्या व्यथितः क्षुधा । प्रगल्भैश्चाटुभिर्वलां प्रार्थयामास तौ ततः ।।६।। भद्र भक्तं गुरोरेतदिति तौ प्रत्यवोचताम् । पृष्ठलग्नस्ततस्ताभ्यामभ्यर्णं सोऽगमद्गुरोः ।।७।। तद्दर्शनोद्भवानन्दबाष्पैः खेदं विनुद्य सः । ययाचे भक्तमाचार्य कारुण्यैकसुधानिधिम् ।।८।।