________________
५-तत्त्वतत्त्वम् गा-२४९
३४१
इह च क्षायिकं साद्यपर्यवसितम्, क्षायोपशमिकं तूत्कृष्टतः पूर्वकोटिपृथक्त्वाधिकानि षट्षष्टिसागरोपमानि, जघन्यतोऽन्तर्मुहूर्त्तम्, औपशमिकमुभयथाप्यन्तर्मुहूर्त्तम्, वेदकमेकसामयिकम्, सास्वादनमुत्कर्षत: षडावलिकम्, जघन्यतस्त्वेकसामयिकम् । एतेषामेकैकस्य निसर्गाधिगमभेदविवक्षया दशविधं सम्यक्त्वमिति सर्वत्र योगः । निसर्गरुच्यादिभेदतो वा दशविधम्, तथा च -
निस्सग्गुवएसरुई आणारुई सुत्तबीयरुइमेव ।
अभिगम वित्थाररुई किरिया संखेव धम्मरुई ।। [उत्तरा. २८-२६] रुचिशब्दः सर्वपदेषु दृश्यः, सम्यक्त्वे गुणेऽपि वाच्ये गुणिरूपतयाभिधानं तयोः कथञ्चिदनन्यत्वख्यापनाय एतेषां व्याख्यानगाथा: -
जो जिणदिटे भावे चउव्विहे (द्रव्यादिरूपतया) सद्दहेइ सयमेव । एमेव नन्नहत्ति य निस्सग्गरुइत्ति नायव्वो ।। एए चेव उ भावे उवइटे जो परेण सद्दहइ ।
छउमत्थेण जिणेण व उवएसरुइत्ति नायव्वो ।। रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । (देशत एव न सर्वतः) आणाए रोयंतो (आज्ञयैवाचार्यसम्बन्धिन्या तथेति श्रद्दधानो माषतुषादिवत्) सो खलु आणारुई नाम ।।
जो सुत्तमहिज्जतो सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायव्यो ।। एगपएणेगाइं पयाइं जो पसरई उ सम्मत्ते ।
उदएव्व तेलबिंदू सो बीयरुइत्ति नायव्यो ।। तत्त्वैकदेशोत्पन्नरुचिरपि क्षयोपशमविशेषात् समस्ततत्त्वेषु रुचिमान् भवतीत्यर्थः ।
सो होइ अभिगमरुई सुयनाणं जेण अत्थओ दिलै । एक्कारसअंगाइं पइन्नगादिट्ठिवाओ य ।। दव्वाण सव्वभावा (पर्यायाः) सव्वपमाणेहिं जस्स उवलद्धा । (ये यद्विषयास्ते तेन) सव्वाहिं नयविहीहिं वित्थाररुइत्ति नायव्वो ।।