________________
३४०
रणम् - सम्यक्त्वप्रकरणम्
इहाद्यं प्रतीतमेव, द्वितीयं तु विव्रियते -
इह यथाप्रवृत्तिकरणेन सागरोपमकोटीकोटेरन्तर्मिथ्यात्वस्थितिमानीयोदयक्षणादन्तर्मुहूर्त्तमतिक्रम्यापूर्वकरणानिवृत्तिकरणाभ्यामन्तर्मुहूर्तप्रमाणमन्तरकरणं करोति जन्तुस्ततस्तस्मादधस्तन्युपरितनी चेति मिथ्यात्वस्य स्थितिद्वयं भवति स्थापना । ततोऽधस्तनी स्थितिमन्तर्मुहूर्तेन वेदयित्वान्तकरणं प्राप्तः प्रथमसमयादेवौपशमसम्यक्त्वं लभते, तत्पुनर्न पुद्गलानुभवरूपमपित्वध्यवसायमात्रम्, यदुक्तम् -
ऊसरदेसं दढिल्लयं व विज्झाइ वणदवो पप्प ।।
इयमिच्छस्स अणुदए उवसमसम्मं लहइ जीवो ।। [ ] तञ्चावस्थितस्वरूपम्, यदाह -
जं मिच्छस्साणुदओ न हायए तेण तस्स परिणामो ।
जं पुण सयमुवसंतं न वट्टएवट्ठिओ तेणं ।। [ ] औपशमिकस्य च क्षायोपशमिकादयं विशेषः, क्षायोपशमिके प्राक्समितमनुसमयमुदेति, प्रदेशतश्च वेद्यते क्षीयते च स्थगितमपि कोद्रवदृष्टान्तात्, न त्वस्मिन्नयं प्रकारोऽस्ति, उदयविष्कम्भणमात्रत्वाद्विशूच्याहारवद, अस्मादेव च भ्रश्यन्तो द्वीन्द्रियादिषूत्पद्यन्ते, नान्यस्माद्, अन्यतो झटिति मिथ्यात्वप्राप्त्या षडावलिककालासम्भवाद् ।
कारकरोचकदीपकभेदतो वा त्रिविधम्, कारकं साधूनामिव, रोचकं श्रेणिकादेरिव, दीपकमङ्गारमर्दकादेरिव, वेदकस्य पृथग्विवक्षया चतुर्दा, तत्स्वरूपं च -
बावीससंतमोहस्स सुद्धदलियक्खयंमि आढत्ते ।
जीवस्स चरमसमये अणुभवणे वेयगं होइ ।। [ ] इह च क्षायोपशमिकं समस्तपरिवेषितभोजनसमानम्, वेदकं तु चरमकवलतुल्यमिति भेदविवक्षा, ईषत्तत्त्वश्रद्धानत्वेन सास्वादनस्यापि सम्यक्त्वविवक्षया पञ्चविधम्, तत्पुनः -
उवसमसमत्ताओ चवओ मिच्छं अपावमाणस्स । सासायणसम्मत्तं छावलियं होइ नायव्वम् ।। [संबोधप्र. ८७४]
१. चविओ T.C