________________
५-तत्त्वतत्त्वम् गा-२४६
३३५
श्रीवसंतपुरे पूर्व जितशत्रुरभून्नृपः । तस्यान्धः शब्दवेधी च सूरसेनः सुतोऽजनि ।।१।। तस्यानुजोऽभवद्वीरसेनः शूरशिरोमणिः । अपरेधुः परानीकैर्विष्वक्पुरमरुध्यत ।।२।। संवर्म्य युद्धश्रद्धालुरथ ज्येष्ठसुतो रथी । महावीर्यः पुरात्पित्रा वार्यमाणोऽपि निर्ययौ ।।३।। शब्दवेधीतया यत्र यत्राश्रौषीदसौ ध्वनिम् । तत्र तत्र क्षिपन् बाणानवधीद्वैरिणो रणे ।।४।। अन्धः कथञ्चिन्निश्चित्य हतशेषैः स वैरिभिः । मौनमास्थाय निपुणैः पाणिग्राहमगृह्यत ।।५।। तदाकर्ण्य कनिष्ठोऽस्य भ्राता संवर्म्य निर्गतः । अरीश्चक्रे कथाशेषानशेषान् शूरशेखरः ।।६।।
जयश्रिया समं सूरसेनं प्रत्यानिनाय सः । प्रत्यूहव्यूहरहितश्चाभूद्भोगेकभाजनम् ।।७।। इति गाथार्थः ।।२४५।। चक्रे० : तदेवं दृष्टान्तमुपदर्श्य दार्टान्तिकमाहुः - देव० : तदेवं दृष्टान्तमुपदर्श्य दार्टान्तिकमाह -
कुणमाणो वि निवित्तिं परिञ्चयंतो वि सयणधणभोगे।
दितो वि दुहस्स उरं मिच्छद्दिट्ठी न सिज्झइ उ।।२४६।। चक्रे० : कुर्वन्नपि निवृत्तिम् - अन्यदर्शनोक्तां विरतिम् । परित्यजन्नपि स्वजनधनभोगान्, ददानोऽपि दुःखस्योरः पञ्चाग्नितपःप्रमुखैमिथ्यादृष्टिर्न सिध्यति, दर्शनविकलत्वादन्धकुमारवत् कार्यसिद्ध्यक्षमः, अत्र चाऽर्थे भावतो दर्शनविकलस्तामलिदृष्टान्तः ।।२४६ ।।
देव० : कुर्वन्नपि निवृत्तिमन्यदर्शनाभिहिताम्, तद्यथा-पञ्च यमाः पञ्च नियमा इत्यादिकां तथा परित्यजन्नपि स्वजनधनभोगान्, पञ्चाग्नितपआदिना दददपि दुःखस्योरो मिथ्यादृष्टिर्न सिद्ध्यति, तुरवधारणे, नैव सिद्धयति दर्शनविकलत्वाद्, अन्धकुमारवदसमर्थः कार्यसिद्धये, इति गाथार्थः ।।२४६।। १. वसंतपुरमित्यास्ते पुरं तत्राभवन्नृपः । जितशत्रुरितिख्यातस्तत्सुतौ द्वौ बभूवतुः ।। तत्राद्यः सूरसेनाख्यः शब्दवेधी विलोचनः । कनिष्ठो वीरसेनः सुसुवे कान्तिर्महाभुजः ।। रुद्धेऽन्येधुः परानीकैः पुरे ज्येष्ठसुतो नृपं । विज्ञाय वार्यमाणोऽपि राज्ञा तदभ्यषेणयत् ।। शब्दवेधितया यत्र यत्राश्रौषीदसौ ध्वनिम् । तत्र तत्र क्षिपदाणान् परास्तवैरिणो व्यधात् ।। लिङ्गेभ्यस्तं विदित्वान्धं तूष्णीभूय सुशिक्षितैः । हस्तग्राहं गृहीतोऽसौ विचक्षुः परिपन्थिभिः ।। तदाकर्ण्य कनिष्ठोऽस्य भ्राता संवर्म्य सत्वरं । निर्जगाम पुरात्तस्माद् हेलया चावधीद् द्विषः ।। ज्येष्ठं प्रत्यानयद् बन्धुं जयलक्ष्म्या समन्ततः । प्रत्यूह व्यूहरहितः सोऽभद भोगैकभाजनम् ।। इति गाथार्थः ।। T.C २. सिज्जइ ओ P. सिज्जई उ K, सिज्झइ ओ A