________________
३३४
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
तथा विवज्जेइ'त्ति, विशेषेण गुरुसाक्षिकत्वलक्षणेन वर्जयति प्रत्याख्याति, अकलङ्कमतिचारकालुष्याभावात्, स्फुटं प्रकटमुद्घाटितशिरस्कतयेति । इह च क्वचित् पञ्चरूपं मिथ्यात्वमुपवर्ण्यते, यथा -
__ आभिग्गहियं अणभिग्गहं च तह अभिनिवेसियं चेव ।
संसइय मणाभोगं मिच्छत्तं पंचहा एवं ।। [प्रा. कर्मग्रन्थ-४/७४] तत्राभिग्रहिकं पाषण्डिनां स्वस्वशास्त्रनियन्त्रितविवेकालोकानां परपक्षप्रतिक्षेपदक्षाणां भवति । अनाभिग्रहिकं तु प्राकृतलोकानां सर्वे देवा वन्दनीया, न निन्दनीया, एवं सर्वे गुरवः, सर्वे धर्मा इति । आभिनिवेशिकं जानतोऽपि यथास्थितं वस्तु दुरभिनिवेशविप्लावितधियो गोष्ठामाहिलादेरिव भवति । सांशयिकं देवगुरुधर्मेष्वयमयं वेति संशयानस्य भवति । अनाभोगिकं विचारशून्यस्यैकेन्द्रियादेर्वा विशेषविज्ञानविकलस्य भवतीति।।२४४ ।।
चक्रे० : अथ सम्यक्त्वस्यैव कर्मक्षयमूलकारणत्वं बिभणिषवो व्यतिरेकेण दृष्टान्तमाहुः -
देव० : एवं यथा सम्यक्त्वं भवति तथा दर्शितमधुनास्यैव कर्मक्षयमूलकारणत्वं व्यतिरेकरूपतया बिभणिषुर्दृष्टान्तमाह -
कुणमाणो वि हि किरियं परिचयंतो वि सयणधणभोगे।
दितो वि दुहस्स उरं न जिणइ अंधो पराणीयं।।२४५।। चक्रे० : कुर्वाणोऽपि क्रियां शस्त्रप्रक्षेपादिकां परित्यजन्नपि स्वजनधनभोगान् रणरसिकत्वेनेति भावः, ददानोऽपि दुःखस्योरः शरीरानपेक्ष इत्यर्थः । न जयत्यन्धः परानीकमित्यक्षरार्थः ।।२४५।।
देव० : कुर्वन्नपि क्रियां प्रहरणप्रक्षेपादिरूपाम्, परित्यजनपि स्वजनधनभोगान्, सङ्ग्रामैकतान इति हृदयम्, दददपि दुःखस्योरः शरीरनिरपेक्ष इत्यर्थः । न जयत्यन्धः परानीकमित्यक्षरार्थः, भावार्थः सम्प्रदायगम्यः, स चायम् -
१. वि हु A