________________
५-तत्त्वतत्त्वम् गा-२४४
३३३
ऽधर्मेऽपि धर्मबुद्धिरित्येतदपि मिथ्यात्वम्, किन्तु देवप्रणेतृकत्वाद् गुरूपदेष्ट्रकत्वाच्च धर्मस्य तद्ग्रहणेनैव ग्रहणमिति न पृथग्भणनम्, लोकेभ्यो वर्णितस्वरूपेभ्य उत्तरा ज्ञानादिगुणभाक्त्वादुत्तमा अर्हन्तास्तेषु भवं मिथ्यात्वमपि लोकोत्तरम्, तदपि द्विविधम्, देवगतं गुरुगतं च, एवोऽवधारणे, तेन न प्राग्वदत्रापि धर्मविषये मिथ्यात्वं तत्र देवगतं यद्वीतरागेऽप्युपयाचितादिना रागाद्यारोपणम्, उक्तं च -
लोगुत्तमदेवम्मिवि लोइयदेवाण जाणि लिंगाणि ।
इच्छापरिग्गहाईणि तेसिमारोवणं मिच्छा ।। [श्रावकधर्मविधिप्र. १८] गुरुगतं तु यल्लोकोत्तमलिङ्गिष्वपि पार्श्वस्थादिषु गुरुत्वबुद्ध्या वन्दनादिविधानम्, प्रपञ्चितं चैतदधस्तादिति गाथार्थः । ।२४३ ।। चक्रे० : अथैतत्परिहारे फलमाहुः - देव० : अर्थतत्परिहारे फलमाह -
चउभेयं मिच्छत्तं तिविहं तिविहेण जो विवज्जेइ।
अकलंकं सम्मत्तं होइ फुडं तस्स जीवस्स।।२४४।। चक्रे० : स्पष्टा ।।२४४ ।। देव० : सुगमा, नवरं तिस्रो विधाः करणकारणानुमतिलक्षणा यस्य तत् त्रिविधं मिथ्यात्वम्, त्रिविधेन मनोवाक्कायलक्षणेन करणेनेति गम्यमिहैवं भावनागाथा -
एयं अणंतरुत्तं मिच्छं मणसा न चिंतइ करेमि । सयमेसो व करेऊ अन्नेण कए व सुटुकयं ।। एवं वाया न भणइ करेमि अन्नं च न भणइ करेहि । अन्नकयं न पसंसइ न कुणइ सयमेव काएणं ।। करसन्नभमुहरेववाइएहिं न य कारवेइ अन्नेणं । न पसंसइ अन्नकयं छोडियहसियाइचेट्टाहिं । ।[श्रावकधर्मविधिप्र. ३२, ३३, ३४]