SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३३२ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम * नवतत्त्वप्रकरणे-५१ * अथ नवतत्त्वानां परिज्ञाने फलमाह - जीवाइनवपयत्थे जो जाणइ तस्स होइ सम्मत्तं । भावेण सद्दहंतो अयाणमाणेवि सम्मत्तं ।। जीवादिनवपदार्थान् यो जानाति श्रद्दधाति च तस्य सम्यक्त्वं भवत्यथ च भावेन 'तमेव सच्चं नीसंकं जं जिणेहिं पवेईयं' इत्यादिरूपेण श्रद्दधानोऽपि कोऽर्थः श्रद्धानं कुर्वति जीवादि नवपदार्थानादिकथनेनाजानन्नपि जीवादिनवपदार्थज्ञानरहितेऽपि जीवे सम्यक्त्वं भवति ।।५१।। चक्रे० : सम्यक्त्वं च मिथ्यात्वत्यागे स्यात्, तच्च ज्ञातमेव त्यक्तुं शक्यमिति भेदतस्तत्स्वरूपमाहुः - देव० : तदियता ग्रन्थेन 'देवो धम्मो मग्गो' इत्यादि द्वारगाथापूर्वार्धं व्याख्यातमधुना 'तव्विवरियं' इत्यादिकमुत्तरार्द्ध विवरितुमाह - दुविहं लोइयमिच्छं देवगयं गुरुगयं मुणेयव्वं । लोउत्तरं पि दुविहं देवगयं गुरुगयं चेव।।२४३।। चक्रे० : लोका जिनमतबहिर्वतिनो जनाः, तेषु भवं लौकिकं मिथ्यात्वं द्विविधम् - देवगतं गुरुगतं च, देवाः सुगतादयस्तेषु देवबुद्ध्या पूजादि, गुरवः शाक्यादयस्तेषु गुरुबुद्ध्या प्रणामादि । लोकेभ्यो वर्णितस्वरूपेभ्य उत्तरा ज्ञानादिगुणैः प्रधानभूता आर्हतास्तेषु भवं मिथ्यात्वमपि लोकोत्तरं तदपि द्विविधम्, देवगतं गुरुगतं च, तत्र देवगतं यद्वीतरागेऽप्युपयाचितादिना रागाद्यारोपणम्, गुरुगतं यत्पार्श्वस्थादिषु गुरुबुद्धया वन्दनकादि ।।२४३।। देव० : द्विविधम्, लोका जिनमतबहिर्वतिनो जनास्तेषु भवं लौकिकं मिथ्यात्वम्, कथमित्याह- देवान् गतं प्राप्तं देवगतं देवविषयमित्यर्थः, एवं गुरुगतमपि मुणितव्यं ज्ञातव्यं ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च, तत्र देवगतं यददेवेष्वपि स्त्रीशस्त्राक्षसूत्रादिसूचितरागद्वेषमोहेषु नाट्याट्टहाससङ्गीताद्युपप्लवविसंस्थुलेषु प्राकृतजननिर्विशेषेषु हरिहरहिरण्यगर्भादिषु देवत्वबुद्धया वन्दनपूजनसत्कारादिकरणम्, गुरुगतं यदगुरुष्वपि सर्वभोजिषु मिथ्योपदेशिष्वब्रह्मचारिषु महापरिग्रहिषु शाक्यतापसादिषु गुरुत्वबुद्ध्या वन्दननमस्करणादि, हिंसादिदूषिते मिथ्यादृष्टिनिषेविते १. लोगुत्तरं P.K, २. द्वेषाज्ञानेषु T,B,C,
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy