________________
५-तत्त्वतत्त्वम् गा-२४२
३३१
चक्रे० : उक्तानि तत्त्वानि, सम्प्रति तच्छ्रद्धाने सति सम्यक्त्वं भवतीत्याहुः -
देव० : एवं देवधर्ममार्गसाधुतत्त्वस्वतत्त्वं प्रपञ्चितम्, सम्प्रति यदुक्तमेतद्विषयं श्रद्धानं सम्यक्त्वं तद्विवरिषुराह -
जीवाइनवपयत्थे जो जाणइ तस्स होइ सम्मत्तं।
भावेण सद्दहंते अयाणमाणेऽवि सम्मत्तं ।।२४२।। चक्रे० : जीवादिनवपदार्थान् यो जानाति, ज्ञानं च श्रद्धानं विना निष्फलमिति श्रद्धत्ते च तस्य भवति सम्यक्त्वम्, न पुनर्ज्ञानमात्रेणैव, तथा भावेन शुद्धेन परिणामेन श्रद्दधति - जिनोक्तमेव तत्त्वमिति मन्यमानेऽजानत्यपि सम्यक्त्वम् । ननु पूर्वं देवादिविषयं श्रद्धानं सम्यक्त्वमुक्तम्, इह तु जीवादिविषयमिति विरुध्यते ? न, देवादीनां जीवादिष्वेवाऽन्तर्भावात्
।।२४२।। देव० : जीवादिनवपदार्थान् यो जानाति, उत्तरार्धवर्तिनः श्रद्दधच्छब्दस्येहापि सम्बन्धादर्थवशाच्च षष्ट्यन्ततायां तस्य श्रद्दधत एव भवति सम्यक्त्वम्, यतोऽस्ति हि स कश्चिदात्मनः परिणामो येन सत्यपि जीवादिस्वरूपावबोधे कस्यचिदेव सम्यक्प्रतिपत्तिर्भवति, न पुनः सर्वस्य, यथा हि सत्यपि दर्शने कस्यचिच्छङ्कादि जायते, अन्यस्त्वन्यथाभावमिति, तत्र कारणविशेषोऽनुमीयते, एवमिहापि, ततश्च जीवादिस्वरूपपरिज्ञानस्य सम्यग्भावहेतुरात्मपरिणामविशेषः सम्यक्त्वम्, न तु ज्ञानमेव, अत एव हि ज्ञानादावरणभेदो विषयभेदः कारणभेदः, ज्ञानकारणत्वं च सम्यक्त्वस्य श्रुतकेवलिनोक्तमिति । ननु पूर्वं देवादिविषयं श्रद्धानं सम्यक्त्वमभिहितमिह तु जीवादिविषयमिति कथं न विरोध: ? न, देवादीनां जीवादिष्वेवान्तर्भावितत्वाद्, अथैतत्परिज्ञानविकलेषु का वार्तेत्याह भावेनान्तःकरणेन श्रद्दधति जिनवचनमेव तत्त्वमिति प्रतिपद्यमानेऽजानत्यपि सम्यक्त्वम्, तत्पुनर्द्रव्यसम्यक्त्वमेव, प्राच्यं तु भावसम्यक्त्वमुक्तं हि
जिणवयणमेव तत्तं एत्थरुई होइ दव्वसम्मत्तं ।
जहभावा नाणसद्धा परिसुद्धं भावसम्मत्तं ।। [पञ्चवस्तु-१०६३] यतः - सम्मं अन्ना य गुणे सुंदररयणम्मि होइ जा सद्धा ।
तत्तोऽणंतगुणा खलु विन्नायगुणम्मि बोधव्वा ।। [पञ्चवस्तु-१०६४] इति गाथार्थः ।।२४२।।
.TB.C. २. कस्यचिच्छखेश्चेतिमानं प्रतिपद्यते A कश्चिच्छखेश्चेतिमानं प्रतिपद्यते T.B.C
१.ववाई
ववषर6A