________________
३३०
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
चक्रे० : तथा - देव० : तथा -
तवसंजमेहिं निज्जर पाणिवहाईहिं होइ बंधोत्ति।
कम्माण सव्वविगमो मुक्खो जिणसासणे भणिओ।।२४१ ।। चक्रे० : सुगमा, नवरं तपःसंयमाभ्यां संयमिनां सकामा कर्मनिर्जरा, नारकतिर्यगादीनां तु शीतोष्णक्षुत्पिपासादिक्लेशैर्विपाकादपि कर्मनिर्जरणादिहानुक्ताऽप्यकामनिर्जराऽपि स्यात्।।२४१ ।।
देव० : तपःसंयमाभ्यां निर्जरा, इयमपि सकामाकामभेदाद् द्विधा, तत्र सकामा संयमिनां निर्जरणाभिप्रायेण तैस्तपःसंयमविधानाद्, अकामा तु नारकतिर्यगादिजन्तूनां तेषां कर्मनिर्जराभिप्रायविकलानामपि शीतोष्णक्षुत्पिपासादिक्लेशैर्विपाकादेव कर्मनिर्जरणादिह च यद्यपि 'अणुकंपाऽकामनिज्जर' इत्याद्यभिधानादकामनिर्जराया अपि सम्यक्त्वलाभहेतुत्वेनोपयोगित्वम्, तथापि प्राधान्यख्यापनार्थं सकामैवात्राभिहितेति । तथा प्राणिवधादिभिरादिशब्दान्मृषावादादत्तादानमैथुनपरिग्रहमिथ्यात्वकषायदुष्टयोगप्रमादैर्भवति बन्ध एतैश्चाशुभप्रकृतीनामेव बन्धः, सद्वेद्यादीनां तु देवपूजादिभिरिह च -
प्रकृतिस्थित्यनुभावप्रदेशा विधयोऽस्य तु । प्रकृतिस्तु स्वभावः स्याज्ज्ञानावृत्त्यादिरष्टधा ।। निकर्षोत्कर्षतः कालानियमः कर्मणां स्थितिः ।
अनुभावो विपाकः स्यात् प्रदेशोंशप्रकल्पनम् ।। [ ] तथायमपि सम्परायप्रत्ययेर्यापथप्रत्ययभेदाद् द्विधैव, तत्रोपशान्तमोहादर्वाक् सम्परायप्रत्ययः, परतः पुनरीर्यापथप्रत्ययोऽयोगिनोऽर्वागिह पुनः साम्परायिक एवोक्त, इतरस्य तु प्रकृतितः सद्वेद्यविषयत्वेन, स्थितितो द्विसामयिकत्वेन, अनुभागतो मन्दानुभावत्वेन, प्रदेशतोऽल्पप्रदेशत्वेन स्वल्पविषयत्वान्न विवक्षा, इतिर्वाक्यसमाप्तौ, तथा कर्मणां सर्वविगमः, न तु देशविगमः, तस्याऽऽसंसारं प्रतिक्षणमेव सम्पद्यमानत्वान्मोक्षो जिनशासने भणितोऽनेन शासनान्तरेषु यदन्यथाऽन्यथा मोक्षभणनं तत्प्रत्याक्षिपतीति गाथार्थः । ।२४१।।
१. बंधत्ति P. बंधुत्ति र