________________
५-तत्त्वतत्त्वम् गा-२४०
३२९
__
३२९
चक्रे० : उक्तमजीवतत्त्वं शेषाण्याहुः - देव० : अवसितमजीवतत्त्वमथ शेषाण्याह -
सुग्गइमग्गो पुत्रं दुग्गइमग्गो य होइ पुण पावं।
कम्म सुहाऽसुह आसव संवरणं तस्स जो नियमो।।२४०।। चक्रे० : पूर्वार्द्धं स्पष्टम्, पश्चार्द्धमुच्यते । कर्म शुभाशुभं सातासातावेदनीयादिकम् । सदसव्यापारैर्यनवमुपार्जयति जन्तुरितिशेषः स आश्रवः । संवरणं संवर इत्यर्थः, तस्याश्रवस्य यो नियमो निरोधः ।।२४०।।
देव० : सुगतिः सुदेवत्वसुमानुषत्वलक्षणा तस्या मार्ग इव मार्गस्तत्प्रापकत्वेन, किम् ? तत्पुण्यं शुभप्रकृतिरूपम्, दुर्गति रकत्वतिर्यक्त्वकुदेवत्वकुमानुषत्वलक्षणा, तस्या मार्गः पूर्ववत्, चकारः पुण्यपापयोरात्मनो बन्धनत्वं प्रति समत्वमाक्षिपति, तथा चोर्दुष्यते-पुण्यपापक्षयान्मोक्ष इति, भवति पुनः पापं तथा कर्म मनोवाक्कायव्यापारः, किंविशिष्टम् ? शुभाशुभम्, आश्रवः शुभाशुभमनोवाक्कायव्यापारैर्हि जन्तूनां शुभाशुभकर्माण्याश्रवन्ति, तथा चोक्तम्
मैत्र्यादिवासितं चेतः कर्म सूते शुभात्मकम् । कषायविषयाक्रान्तं वितनोत्यशुभं पुनः ।। शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः । विपरीतं पुनर्जेयमशुभार्जनहेतवे ।। शरीरेण सुगुप्तेन शरीरी चिनुते शुभम् ।
सततारम्भिणा जन्तुघातकेनाशुभं पुनः ।।[योगशास्त्र-४/७५, ७६, ७७]इति। संवरणं संवर इत्यर्थः, तस्याश्रवस्य यो नियमो नियन्त्रणं निरोध इत्यर्थः, स पुनद्वैधा, द्रव्यतो भावतश्च, तत्र ज्ञानावरणादिकर्मादाननिरोधो द्रव्यसंवरः, भवहेतुक्रियानिरोधस्तु भावसंवरः, स च शैलेश्यवस्थायामिति गाथार्थः । ।२४०।।
१. मार्ग इव मार्गः T,B.C