________________
३३६
चक्रे० : यत एवं ततः किं कार्यमित्याहुः - देव० : यत एवं ततः किं कर्त्तव्यमित्याह -
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
तम्हा कम्माणीयं जेउमणो दंसणंमि पयइज्जा । दंसणवओ हि सफलाणि हुंति तवनाणचरणाणि । । २४७ ।।
चक्रे० : स्पष्टा, नवरं 'दंसणंमि पयइज्जा' सम्यग्दर्शने प्रयतेत ।।२४७।।
देव० : यस्मात्सिद्धिमार्गमूलास्पदं सम्यग्दर्शनमन्तरेण न कर्मक्षयः स्यात्तस्मात् कर्मानीकं जेतुमनाः सम्यग्दर्शने प्रयतेत, तस्मिंश्च सति यद्भवति तद्दर्शयति-दर्शनवतो हि हेतौ यस्मात् सम्यग्दर्शनिनः सफलानि भवन्ति तपोज्ञानचरणानि, चक्षुष्मतो वीरसेनकुमारस्येव सङ्ग्रामप्रवर्तनानि, अतस्तत्र यत्नवता भाव्यमिति गाथार्थः ।। २४७ ।।
चक्रे० : किञ्च चारित्रमप्यतिशेते सम्यग्दर्शनमित्याहुः
देव० : किञ्च चारित्रमप्यतिशेते सम्यग्दर्शनमित्याह
-
भट्ठेण चरित्ताओ सुट्टुयरं दंसणं गहेयव्वं ।
सिज्झति चरणरहिया दंसणरहिया न सिज्झति । । २४८ । ।
चक्रे० : एषाऽपि स्पष्टैव, नवरं चरणरहिता द्रव्यतश्चारित्रवर्जिता इत्येवं ज्ञेयं न पुनर्भावतः, भावतश्चारित्राऽभावे केवलज्ञानस्याप्यनुत्पादनात् । स्वयमेव च वक्ष्यति 'चरणकरणेहिं रहिओ न सिज्झई सुठु सम्मदिट्ठी वित्ति ।। २४८ ।।
देव० : भ्रष्टेन च्युतेन, कुतः ? चारित्रात् सुष्ठुतरं सुतरां पुनर्बोधिलाभानुबन्धि दर्शनं ग्रहीतव्यम्, शक्यमोक्षोपायत्वाद्, यदभ्यधायि
जइ न तरसि धारेडं मूलगुणभरं सउत्तरगुणं च ।
मुत्तूण तो तिभूमी सुसावगत्तं वरतरागं ।। [ उपदेशमाला - ५०१]
तथा सिद्ध्यन्ति चरणरहिताः प्राणिनो दीक्षाप्रवृत्त्यनन्तरान्तकृत्केवलिनः, दर्शनरहितास्तु न सिद्ध्यन्ति, अतो दर्शनमेव प्रधानं सिद्धिकारणं तद्भावभावित्वाद्, एतत्पुनर्दर्शननयाभिप्रायादभिधीयते, तत्त्वतस्तु चारित्रमेव दर्शनज्ञानसमन्वितं मुक्तिकारणम्, न पुनः सम्यग्दर्शनमेव, तस्य सर्वगतिष्वपि भावाद्, न च मनुजगतिव्यतिरेकेणान्यासु मुक्तिश्चारित्राभावाद्, उक्तं हि