________________
५-तत्त्वतत्त्वम् गा-२३८
३२५
चक्रे० : तथा - देव० : तथा -
अवगाहो आगासो पुग्गलजीवाण पुग्गला चउहा।
खंधा-देस-पएसा परमाणु चेव नायव्वा।।२३८।। चक्रे० : अवगाहोऽवकाशः पुद्गलानां जीवानां च यत्र तदाकाशम् । सूत्रे पुंनिर्देशः प्राकृतत्वात् । कालपुद्गलयोश्चाऽत्र सुज्ञानत्वाल्लक्षणं नोक्तं तच्चेदम् - शीताऽऽतपवर्षादिनैयत्यहेतुः कालः । वर्णगन्धादिलक्षणाश्च पुद्गलाः । ते च चतुर्द्धा स्कन्धाः, देशाः, प्रदेशाः, परमाणवश्च ज्ञातव्याः । ननु स्कन्धादिभेदाः प्रागुक्ता एव ? सत्यम्, किन्तु न पुद्गलभेदत्वेनेति ।।२३८ ।।
देव० : अवगाहन्तेऽवकाशं लभन्तेऽस्मिन्नित्यवगाह आकाशः, केषामवगाहः स इत्याहपुद्गलजीवानाम्, अनेनावगाहकारणत्वमस्याभिहितम्, इह च कालपुद्गलयोः सुज्ञानत्वाल्लक्षणं चिद्रूपतायामेव व्यापारो नतु नियताकारत्वेऽतः सूत्रार्थः [बाह्यार्थः] कारणं कल्पते । एवं तर्हि जीवपुद्गलौ परिणाममात्र एव कारणं स्थितिपरिणतौ पुनरधर्मास्तिकायोऽपेक्षाकारणत्वेन व्याप्रियत इत्यनियमेन स्थितिकारणः स्यात् नन्वेवमर्थोऽपि किं न सन्निहित एव स्वाकारमर्पयति । अथ चक्षुरादि व्यापारमयमपेक्षते, अधर्मास्तिकायोऽपि तर्हि स्वपरगतौ विश्रसा प्रयोगावपेक्षत इति नानयोर्विशेषमुत्पश्याम इति गाथार्थः T,B,C
१. अवगाहमाकाशं पंस्त्वमभयत्र प्राकृतवशात्केषामवगाहं तदित्याह T,B,C२. नचास्य तत्कारणत्वमसिद्धम् । यतो यद्यदन्वयव्यतिरेकानुविधायि तत्तत्कार्यं यथा चक्षुराद्यन्वयव्यतिरेकानुविधायिरूपादिविज्ञानम्, आकाशान्वयव्यतिरेकानुविधायी चावगाहस्तथाहि-शुषिरमाकाशं तत्रैव चावगाहो नतु तद्विपरीते पुद्गलादौ न चैवमलोकाकाशेऽपि स्यादवगाहः, तत्र हि धर्मास्तिकायस्य जीवादीनां चासत्वेनावगाहितुरेवाभावात्कस्यासौ भविष्यति । नत्वेवमपि न तत् सिद्धिहेतोरसिद्धत्वात् तदसिद्धिश्चान्वयाभावात् सति हि तस्मिन्नवगाहमत्वस्य न च तत्सिद्धिरस्ति । ततो व्यतिरेकस्याप्यसिद्धिरिति । अथ भित्याद्यभाव एवाकाशं नत्वाकाशाभाव एव भित्यादय इति कथं न भवति, अथ तेषां प्रमाणप्रतीतत्वाद्, इहापि वियति विहग इत्यादि प्रतीत्यन्यथानुपपत्त्याऽनुमानतस्तत् सिद्धिरिति समानम् । न चेयं प्रतीतिरन्यथापि सम्भवतीति न ततस्तत्सिद्धिरिति युक्तमेवं हि भित्यादिप्रतीतेरेव भित्याद्यभावेऽपि भावकल्पनया तस्याप्यभावप्रसक्तिः, अथ तत्प्रतीतेः प्रामाण्यनिश्चय इति नान्यथा त्वकल्पना। एवं तर्हि वक्तव्यं कुतोऽस्याः प्रामाण्यनिश्चयः किं प्रमाणान्तरानुग्रहाद् बाधकप्रमाणाद्वा । यदि आद्यपक्षः किं तत्प्रमाणान्तरं य इहाबाधितप्रत्ययः स सर्वः प्रमाणं यथा सुखादि प्रत्ययोऽ बाधितप्रत्ययाश्चामी भित्यादिप्रत्यया इत्यनुमानमिति चेद् यद्येवमिहापि यो य इह प्रत्ययः स स सालम्बनो यथेह कुण्डे दधीति प्रत्ययः, इह प्रत्ययश्चायमिह विहग इत्यनुमानमस्त्येव, अथैवमाधारमात्रस्यैव सिद्धिर्नत्वाकाशस्य, ननु यदैवाधारमात्रं तदैवाकाशमिति ब्रूमः, अथ बाधकाभावाद्, ननु बाधकमपि विपरीतप्रत्ययोत्पत्तिरूपं तदभावश्चोभयत्र समानमिति न भित्याद्यभाव एवाकाशम । किं तु शषिररूपमन्यदेव ततस्तद्भावभावित्वादवगाहस्य कथं न तत्कारणत्वसिद्धिरिति T.C