SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३२६ दर्शनद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् नाभिहितम्, तत्पुनर्वर्तनालक्षणः कालः, वर्त्तन्ते तेन तेन रूपेण भावा भवन्ति तान् प्रति प्रयोजकत्वं वर्तना, तथाहि - यदमी शीतातपवर्षादय ऋतुविभागेन भवन्ति, तदवश्यममीषां नैयत्यहेतुना केनापि भाव्यम्, स च कालः । शब्दान्धकारोद्योतच्छायातपवर्णगन्धरसस्पर्शादिलक्षणाश्चः पुद्गलाः, शब्दस्य च पौगलिकत्वं मूर्त्तत्वान्मूर्तता च प्रतिघातविधायित्वादिति, उक्तं हि प्रतिघातविधायित्वाल्लोष्टवन्मूर्तता ध्वनेः । द्वारवातानुपाताच्च धूमवच्च परिस्फुटम् ।। [ ] अन्धकारादीनां तु पौद्गलिकत्वं चक्षुर्विज्ञानविषयत्वादित्यलमतिविस्तरेण । अथ पुद्गलाः कतिभेदा इत्याह-पुद्गलाश्चतुर्द्धा स्कन्धा देशाः प्रदेशाः परमाणवश्चैव ज्ञातव्याः । ननु स्कन्धादिभेदाः पूर्वमुक्ता एव, सत्यम्, किन्तु न पुद्गलत्वेनेति गाथार्थः ।।२३८ ।। ___ * नवतत्त्वप्रकरणे-९, १० * अथ प्रकारान्तरेण जीवस्य पञ्चैव भेदान् धर्मास्तिकायादीनां च लक्षणानि गाथाद्वयेनाह - धम्माधम्मापुग्गल नह कालो पंच हुंति अजीवा । चलणसहावो धम्मो थिरसंठाणो अहम्मो य ।। अवगाहो आगासं पुग्गलजीवाण पुग्गला चउहा । खंधा देसपएसा परमाणु चेव नायव्वा ।। अजीवा पञ्च भवन्ति, के त इत्याह- १-धर्मास्तिकायः २-अधर्मास्तिकायः ३-पुद्गलास्तिकायः ४-'नह' इति नभ आकाशं तेनाकाशास्तिकायः ५-कालः । अथ लक्षणान्याह १-धर्मो धर्मास्तिकायश्चलनस्वभावो यस्य बलेन जीवाजीवौ चलतः । २-अधर्मः-अधर्मास्तिकायः स्थिरसंस्थानः, कोऽर्थः ? यस्य बलेन जीवाजीवौ स्थिरसंस्थानेन निश्चलतया तिष्ठतः।।९।। ३-'आगासं' अवकाशः, कोऽर्थः ? स्तम्भादौ यस्य बलेन कीलकः क्षिप्तः सन् प्रविशति तदाकाशं पुद्गलानां जीवानां चावकाशदायकम् । ते पुद्गलाश्चतुर्धा चतुःप्रकारा १-स्कन्धाः २-देशाः ३-प्रदेशाः ४-परमाणवश्च । ननु प्रदेशपरमाण्वोः परस्परं को भेदः ? उच्यते-प्रदेशोऽपि निविभागः परमाणुरपि निर्विभागः, परं स्कन्धलग्नः प्रदेशः, स्कन्धात् पृथग्भूतः परमाणुरिति वृद्धाः ।।१०।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy